________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
पटलरजस्त्राणकल्प प्रमाणप्रयो जने नि. ७०१-७०६
।।२१३॥
'मान' प्रमाणं रजस्त्राणस्य 'भाजनप्रमाणेन' पात्रकमानेन भवति, एतदुक्तं भवति-पात्रकानुरूपं रजस्त्राणं भवति, तच्च रजस्त्राणं पात्रकस्य कथं दीयते ? अत आह-प्रदक्षिणां कुर्वाणं सत्तिर्यग् दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्कलानि 'क्रामति' गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीमस्यैव प्रयोजनप्रतिपादनायाह__ मूसयरजउक्केरे वासे सिण्हा रए य रक्खट्ठा । होति गुणा रयताणे पादे पादे य एकेकं ॥७०४ ॥
तच्च रजस्त्राणं दीयते मूषिकरजउत्केरसंरक्षणार्थ, वर्षोदकसंरक्षणार्थ, सिहा-अवश्यायस्तत्संरक्षणार्थ, भवन्ति गुणा रजस्त्राणस्यैते, तच्च पात्रे पात्रे चैकैकं भवतीति । इदानीं कल्पप्रमाणप्रमाणप्रतिपादनायाहकप्पा आयपमाणा अट्ठाइज्जा उ वित्थडा हत्था। दो चेव सोत्तियानिओ य तइओ मुणेयवो ॥७०५॥ |
कल्पा आत्मप्रमाणाः, एतदुक्तं भवति-यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धत-| |तीयांस्तु विस्तृता हस्तान् , तत्र द्वौ सूत्रिकौ भवतः ऊर्णिकश्च तृतीयो विज्ञेयः । इदानीं तत्प्रयोजनप्रतिपादनायाह
तणगहणानलसेवा निवारणा धम्मसुक्कझाणहा । दिदं कप्परगहणं गिलाणमरणट्ठया चेव ॥७०६॥ तृणग्रहणनिवारणार्थ गृह्यन्ते, अनल:-अग्निस्तत्सेवानिवारणार्थ च, एतदुक्तं भवति-कल्पाग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थ कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थ कल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाध्यमानो धर्मशुक्ले ध्याने ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थ दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थ मरणार्थ मृतस्योपरि दीयते कल्पः एतदर्थं च ग्रहणमिति । इदानीं रजोहरणस्वरूपप्रतिपादनायाह
॥२१३॥