SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ षडू, एतानि 'मध्यमानि' न प्रधानानि नाप्यप्रधानानि, तत्र ग्रीष्मो रूक्षः कालः हेमन्तो मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊर्दू जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षडू पुनः हेमन्ते जघन्यानि जीर्णप्रायाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्तेन प्रकारेण त्रिविधेऽपि 'कालच्छेदे' कालपर्यन्ते अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति । इदानीमेषामेव प्रमाणप्रतिपादनायाह अट्ठाइजा हत्था दीहा छत्तीस अंगुले रुद्दा । बितियं पडिग्गहाओ ससरीराओ य निप्फन्नं ॥ ७०१॥ अर्द्धतृतीयहस्तदीर्घाणि भवन्ति, पत्रिंशदङ्गलानि विस्तीर्णानि भवन्ति, द्वितीयमेषां प्रमाण पतग्रहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति, एतदुक्तं भवति-भिक्षाटनकाले स्कन्धः पात्रक चाच्छाद्यते यावता तत्प्रमाणं पटलानामिति । इदानीं किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाह पुप्फफलोदयरयरेणुसउणपरिहारपायरक्खट्ठा । लिंगस्स य संवरणे वेदोदयरक्खणे पडला ॥ ७०२॥ अस्थगिते पात्रके पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते, तथा फलपातरक्षणार्थमुदकपातसंरक्षणार्थ च पटलग्रहणंतथा रजः-सचित्तपृथिवीकायस्सत्संपातरक्षणार्थ च, रेणुः-धूलिस्तत्संपातरक्षणार्थ, शकुनपरिहारः-शकुनपुरीषं तत् कदाचिदाकाशानिपतति तत्पातसंरक्षणार्थ, लिङ्गसंवरणार्थ लिङ्गस्थगनं च तैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति तत्संरक्षणं स्थगनं तदर्थ च पटलानि भवन्तीति । इदानीं रजस्त्राणप्रमाणप्रतिपादनायाह माणं तु रयत्ताणे भाणपमाणेण होइ निप्फन्नं । पायाहिणं करेंतं मझे चउरंगुलं कमइ ॥ ७०३ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy