SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीओघ नियुक्तिः द्रोणीया वृत्तिः पात्रबन्धादिप्रमाणप्र योजने नि. ६९३-६९६ पटलमान नि. ६९७. ॥२१२॥ COCCASCALCCARSA भवति पात्रे पात्रे एकैका पात्रकेसरिका भवति गणनया, तथा गोच्छकः पात्रस्थापनं च एकैकं गणनामानेनेति । इदानीं पटलानां गणनाप्रमाणप्रतिपादनायाहजेहिं सविया न दीसइ अंतरिओ तारिसा भवे पडला। तिन्नि व पंच व सत्त व कयलीगम्भोवमा मसिणा ॥१९॥ गेम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एत्तो पुण मज्झिमे वुच्छं ॥ ६९८॥ गिम्हासु हुंति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया एत्तो उ जहन्नओ वुच्छं ॥ ६९९ ॥ गिम्हासु पंच पडला छप्पुण हेमंति सत्त वासासु । तिविहंमि कालछेए पायावरणा भवे पडला ॥७००॥ यैः पटलैस्त्रिभिरेकीकृतैः सद्भिः सविता न दृश्यते तिरोहितः सन् , पञ्चभिः सप्तभिर्वा पटलैरेकीकृतैः सविता नोपलभ्यत इति, किमुक्तं भवति ?-रवेः संबन्धिनो रश्मयो नोपलभ्यन्ते तादृशानि पटलानि भवन्ति, किंविशिष्टानि ?-कदलीगर्भोपमानि क्षौमाणि श्लक्ष्णानि मसृणानि धनानि चेति, तत्र यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव कालभेदेन विशेषेण दर्शयन्नाह–'ग्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि तानि दृढानि मसृणानि च भवन्ति उत्कृष्टानीत्यर्थः, 'हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते घनानि मसृणानि च शोभनानि यदि भवन्ति, स हि मनाक् स्निग्धः कालः, पञ्च पटलानि वर्षासु गृह्यन्ते यद्युत्कृष्टानि घनानि मसृणानि च भवन्ति, स ह्यत्यन्तस्निग्धकालो यत उत्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत ऊर्दू 'मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । 'ग्रीष्मे' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते, तानि मनाग् जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि, वर्षासु ॥२१॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy