SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ * ASSRSESHREE द्धेतोः अलब्धिमांश्च कश्चिद्भवति तस्यानीय दीयते तच्च पात्रकेण विना दातुं न शक्यतेऽतः कारणात् पात्रकग्रहणं भवति । उक्तं पात्रकप्रमाणप्रमाणम् , इदानीं पात्रबन्धप्रमाणप्रमाणं प्रतिपादयन्नाह. पत्ताबंधपमाणं भाणपमाणेण होइ कायचं । जह गंठिमि कयंमि कोणा चउरंगुला हुति ॥ ६९३ ॥ पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति विज्ञेयं सर्वथा, यथा ग्रन्थौ 'कृतेदते सति कोणी चतुरङ्गलप्रमाणौ भवतस्तथा कर्त्तव्यं । इदानीं पात्रकस्थापनकगोच्छकपात्रकप्रत्युपेक्षणिकानां प्रमाणप्रमाणप्रतिपादनायाह- . पत्तट्ठवणं तह गुच्छओ य पायपडिलेहणीआ य। तिण्हपि यप्पमाणं विहत्थि चउरंगुलं चेव ॥ ६९४ ॥ । पात्रकस्थापनकं गोच्छकः 'पात्रकप्रत्युपेक्षणिका' पात्रकमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिश्चत्वारि चालानि प्रमाणं चतुरस्र द्रष्टव्यं, अत्र च पात्रस्थापनकं गोच्छकश्च एते द्वे अपि ऊर्णामये वेदितव्ये, मुखवस्त्रिका खोमिया । इदानीमेषामेव प्रयोजनप्रतिपादनायाहरयमादिरक्खणट्ठा पत्तढवणं जिणेहिं पन्नत्तं । होइ पमजणहेउं तु गोच्छओ भाणवत्थाणं ॥ ६९५ ॥ पायपमज्जणहेउं केसरिया पाएँ पाएँ एक्केका । गोच्छगपत्तडवणं एकेकं गणणमाणेणं ॥ ६९६ ॥ । रजआदिरक्षणार्थ पात्रस्थापनकं भवति एवं विद्वांसो व्यपदिशन्ति, भवति प्रमार्जननिमित्तं गोच्छको भाजनवस्त्राणां, एतदुक्तं भवति-गोच्छकेन हि पटलानि प्रमृज्यन्ते । तथा 'केसरिकाऽपि' पात्रकमुखवस्त्रिकाऽपि पात्रकप्रमार्जननिमित्तं AGA ASOSLIGIRAUSAHA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy