Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
षडू, एतानि 'मध्यमानि' न प्रधानानि नाप्यप्रधानानि, तत्र ग्रीष्मो रूक्षः कालः हेमन्तो मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊर्दू जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षडू पुनः हेमन्ते जघन्यानि जीर्णप्रायाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्तेन प्रकारेण त्रिविधेऽपि 'कालच्छेदे' कालपर्यन्ते अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति । इदानीमेषामेव प्रमाणप्रतिपादनायाह
अट्ठाइजा हत्था दीहा छत्तीस अंगुले रुद्दा । बितियं पडिग्गहाओ ससरीराओ य निप्फन्नं ॥ ७०१॥ अर्द्धतृतीयहस्तदीर्घाणि भवन्ति, पत्रिंशदङ्गलानि विस्तीर्णानि भवन्ति, द्वितीयमेषां प्रमाण पतग्रहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति, एतदुक्तं भवति-भिक्षाटनकाले स्कन्धः पात्रक चाच्छाद्यते यावता तत्प्रमाणं पटलानामिति । इदानीं किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाह
पुप्फफलोदयरयरेणुसउणपरिहारपायरक्खट्ठा । लिंगस्स य संवरणे वेदोदयरक्खणे पडला ॥ ७०२॥ अस्थगिते पात्रके पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते, तथा फलपातरक्षणार्थमुदकपातसंरक्षणार्थ च पटलग्रहणंतथा रजः-सचित्तपृथिवीकायस्सत्संपातरक्षणार्थ च, रेणुः-धूलिस्तत्संपातरक्षणार्थ, शकुनपरिहारः-शकुनपुरीषं तत् कदाचिदाकाशानिपतति तत्पातसंरक्षणार्थ, लिङ्गसंवरणार्थ लिङ्गस्थगनं च तैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति तत्संरक्षणं स्थगनं तदर्थ च पटलानि भवन्तीति । इदानीं रजस्त्राणप्रमाणप्रतिपादनायाह
माणं तु रयत्ताणे भाणपमाणेण होइ निप्फन्नं । पायाहिणं करेंतं मझे चउरंगुलं कमइ ॥ ७०३ ॥

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456