Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 405
________________ CASSACRORE ततः प्रतिनिवर्तन्ते, कणयपरिमाणेच वक्ष्यति "तिपंचसत्तेव घिसिसिरवास" इत्येवमादिना, अथ तन्न वर्त्तते तदा कालग्रहणवेलाया जातायां दण्डधारी प्रविश्य गुरुसमीपे कथयति, यदुत कालग्रहणवेला वर्तते मा बोलं कुरुत अल्पशब्दैरवहितैश्च | भवितव्यं, अत्र च गण्डकदृष्टान्तः, यथा हिगण्डकः कस्मिंश्चित्कारणे आपने उत्कुरुटिकायामारुह्य घोषयति ग्रामे-इदं प्रत्यूपसि| कर्त्तव्यं, एवमसावपि दण्डधारी मणति यदुत कालग्रहणवेला वर्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तैर्भवितव्यमिति ।। | आघोसिए बहहिं सुयंमि सेसेसु निवडइ दंडो। अह तं बहूहिं न सुयं दंडिजइ गडओ ताहे ॥ ६४५॥ । । एवमाघोषिते सति दण्डधारिणा बहुभिश्च श्रुतं, शेषाश्च स्तोकास्तैन श्रुतं ततश्च तेषामुपरि दण्डो निपतति-सूत्रार्थकरणं नानुज्ञायते, अथेदृशं तदा घोषितं यद्बहुभिर्न श्रुतं स्तोकैः श्रुतं ततश्च तस्यैव दण्डधारिणो निपतति-तस्यैव स्वाध्याय-15 निरोधः क्रियते, कथं गण्डकस्येव ?, यथा गण्डकेनाघोषिते बहुभिामणीकैः श्रुते सति यैः स्तोकैर्न श्रुतं ते दण्ड्यन्ते, अथाघोषिते स्तोकैः श्रुतं बहुभिर्न श्रुतं ततो गण्डके एव दण्डो निपततीति । कालो सञ्झा य तहा दोवि समप्पंति जह समं चेव । तह तं तुलंति कालं चरिमदिसंवा असञ्झागं ॥६४६॥ ___तौ च प्रत्युपेक्षको कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्तिं व्रजतस्तथा ते कालं तुलयतः, एतदुक्तं भवतियथा कालसमाप्तिर्भवति सन्ध्या च समाप्तिं याति तथा तुलयतः प्रत्युपेक्षको, 'चरिमदिसं वा असञ्झार्ग ति चरिमा पश्चिमा दिग् 'असन्ध्या' विगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृहन्ति । इदानीं किंविशिष्टेन पुनः कालः है प्रतिजागरणीयः? इत्यत आह

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456