Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
विभागो जातः, एवमत्रापि 'पट्टविय'त्ति स्वाध्यायप्रस्थापनं यैः कृतं तेभ्यो दीयते स्वाध्यायः, ये पुनःप्रमादिनस्तेभ्यो न दीयते काल इति, काले गृहीते स्वाध्यायो भवति, पुनश्च निवेदिते सति काले पुनर्बहिरन्यः प्रतिजागरकः प्रेष्यते, पुनश्च तत्र बहिःस्थिते प्रतिजागरके सति ततो दण्डधारी प्रविशतीति । पट्टविय वंदिए या ताहे पुच्छेइ किं सुयं भंते !। तेवि य कहंति सवं जं जेण सुयं व द्रिष्टुं वा ॥ ६५६॥ | पुनश्चासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून पृच्छति दण्डधारी, यदुत हे भदन्त ! भवतां मध्ये केच किं श्रुतं ?, तेऽपि च साधवः कथयन्ति सर्वं यद्येन श्रुतं गर्जितादि दृष्टं वा कपिमुखादि । पुनश्च तत्र केषाश्चिद्गर्जितादिशङ्का भवति ततश्च को विधिरित्यत आह
एकस्स दोण्ह व संकियंमि कीरइन कीरए तिण्हं । सगणंमि संकिए परगणमि गंतुंन पुच्छति ॥६५७॥ - एकस्य गर्जितादिशङ्किते क्रियते स्वाध्यायः, द्वयोर्वा, त्रयाणां पुनर्गर्जिताद्याशङ्कायां न क्रियते स्वाध्यायः, एवं यदि स्वगणे शङ्का भवति ततश्चैवंविधायां स्वगणे शङ्कायां सत्यां 'परगणे' अन्यगच्छे.गत्वा न पृच्छन्ति, किं कारणं ?, यत इह कदाचित्स कालग्राहकः साधू रुधिरादिनाऽनायुक्त आसीत् ततश्च देवता कालं शोधयितुं न ददाति, तत्र तु परगणे, नैवं, अथवा परगण एव कदाचिदनायुक्तः कश्चिद्भवति इह तु नैवं, तस्मात्परगणो न प्रमाणमिति । इदानीं यदुक्तमासीत् 'कालचतुष्के नानात्वं वक्ष्यामः' तत्प्रदर्शयन्नाह
कालचउक्के नाणत्तयं तु पादोसियंमि सबेवि । समयं पट्ठवयंती सेसेसु समं व विसमं वा ॥ ६५८ ॥

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456