SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ विभागो जातः, एवमत्रापि 'पट्टविय'त्ति स्वाध्यायप्रस्थापनं यैः कृतं तेभ्यो दीयते स्वाध्यायः, ये पुनःप्रमादिनस्तेभ्यो न दीयते काल इति, काले गृहीते स्वाध्यायो भवति, पुनश्च निवेदिते सति काले पुनर्बहिरन्यः प्रतिजागरकः प्रेष्यते, पुनश्च तत्र बहिःस्थिते प्रतिजागरके सति ततो दण्डधारी प्रविशतीति । पट्टविय वंदिए या ताहे पुच्छेइ किं सुयं भंते !। तेवि य कहंति सवं जं जेण सुयं व द्रिष्टुं वा ॥ ६५६॥ | पुनश्चासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून पृच्छति दण्डधारी, यदुत हे भदन्त ! भवतां मध्ये केच किं श्रुतं ?, तेऽपि च साधवः कथयन्ति सर्वं यद्येन श्रुतं गर्जितादि दृष्टं वा कपिमुखादि । पुनश्च तत्र केषाश्चिद्गर्जितादिशङ्का भवति ततश्च को विधिरित्यत आह एकस्स दोण्ह व संकियंमि कीरइन कीरए तिण्हं । सगणंमि संकिए परगणमि गंतुंन पुच्छति ॥६५७॥ - एकस्य गर्जितादिशङ्किते क्रियते स्वाध्यायः, द्वयोर्वा, त्रयाणां पुनर्गर्जिताद्याशङ्कायां न क्रियते स्वाध्यायः, एवं यदि स्वगणे शङ्का भवति ततश्चैवंविधायां स्वगणे शङ्कायां सत्यां 'परगणे' अन्यगच्छे.गत्वा न पृच्छन्ति, किं कारणं ?, यत इह कदाचित्स कालग्राहकः साधू रुधिरादिनाऽनायुक्त आसीत् ततश्च देवता कालं शोधयितुं न ददाति, तत्र तु परगणे, नैवं, अथवा परगण एव कदाचिदनायुक्तः कश्चिद्भवति इह तु नैवं, तस्मात्परगणो न प्रमाणमिति । इदानीं यदुक्तमासीत् 'कालचतुष्के नानात्वं वक्ष्यामः' तत्प्रदर्शयन्नाह कालचउक्के नाणत्तयं तु पादोसियंमि सबेवि । समयं पट्ठवयंती सेसेसु समं व विसमं वा ॥ ६५८ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy