SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः ॥२०५॥ कालानां चतुष्कं कालचतुष्कं तत्रैकः प्रादोषिकः द्वितीयोऽर्द्धरात्रिकः तृतीयो वैरात्रिकः चतुर्थः प्राभातिकः काल इति, एतस्मिन् कालचतुष्के नानात्वं प्रदर्श्यते, तत्र प्रादोषिककाले सर्व एव समकं स्वाध्यायं प्रस्थापयन्ति, शेषेषु तु त्रिषु कालेषु समकं - एककालं स्वाध्यायं प्रस्थापयन्ति विषमं वा न युगपद्वा स्वाध्यायं प्रस्थापयन्तीति । इदानीं चतुर्णामपि कालादीनां कनकपतने सति यथा व्याघातो भवति तथा प्रदर्शयन्नाह - इंदिमाता हति कणगा उ सत्त उक्कोसं । वासासु य तिन्नि दिसा उडबद्धे तारगा तिन्नि ॥ ६५९ ॥ इन्द्रियैः - श्रवणादिभिरुपयुक्तानां 'नन्ति' व्याघातं कुर्वन्ति कालस्य कनका उत्कृष्टेन सप्त, एतच्च वक्ष्यति, 'वासासु य तिन्नि दिस' त्ति 'वर्षासु' वर्षाकाले प्राभातिके काले गृह्यमाणे तिसृषु दिक्षु यद्यालोकः शुद्ध्यति चक्षुषो न कुड्यादिभिरन्तरितस्ततो गृह्यत एव कालः, अन्यथा व्याघात इति, एतद्विशेषविषयं द्रष्टव्यं, शेषेषु त्रिष्वाद्येषु कालेषु चतसृष्वपि दिक्षु चक्षुष आलोको यदि शुद्ध्यति ततो गृह्यते वर्षाकाले नान्यथा, एतच्च प्रकटीकरिष्यति । 'उउबद्धे तारगा तिणि'त्ति ऋतुबद्धे - शीतोष्णकालयोराद्येषु त्रिषु कालेषु यदि मेघच्छन्नेऽपि तारकात्रयं दृश्यते ततः शुद्ध्यति कालग्रहणं, यदि पुनस्तिस्रोऽपि न दृश्यन्ते ततो न ग्राह्यः प्राभातिकस्तु कालः ऋतुबद्धे मेघैरदृश्यमानायामप्येकस्यामपि तारकायां गृह्यते कालः, वर्षाकाले त्वेकस्यामपि तारकायामदृश्यमानायां चत्वारोऽपि काला गृह्यन्ते । इदानीमेनामेव गाथां भाष्यकृद्व्याख्यानयति कणगा हणंति कालं तिपंचसत्तेव घिसिसिरवासे । उक्का उ सरेहागा रेहारहितो भवे कणतो ॥३१०॥ (भा०) कालग्रहणविधिः नि. ६५६-६५९ भा. ३१० 1120411
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy