Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
न्यायतीर्थप्रकरणम् । नात् न संशयः, नवा विपरीतैककोटिनिष्टङ्कनरूपत्वाभावात् विपर्यय इति ताभ्यामतिरिक्तएव । एते च संशयादयः परोक्षयोग्यविषया अपि भवन्ति, तथाहि-कुत्रचित् विपिनप्रदेशे शृङ्गमात्रोपदर्शनात् 'किं गौरयं भवेद् गवयो वा' ? इति संशयज्ञानम् । एवं हेत्वाभासादिसमुद्भवज्ञानानि परोक्षप्रमाणयोग्यविषयविपर्ययरूपाण्येव । अनध्यवसायः पुनः परोक्षविषये कस्यचिदपरिचितगोजातीयस्य जनस्य कचन वनप्रदेशे सास्नामात्रावलोकनात् पिण्डमात्रमनुमाय को नु खल्विह प्रदेशे प्राणी स्यादिति । एते च त्रयः संशयादयः समारोपसञ्ज्ञया सज्ञेयाः, अतस्मिन् तदध्यवसायो हि समारोपः प्रोक्तः । अनध्यवसायस्य च तल्लक्षणासङ्गत्या समारोपत्वं यद्यपि नार्हति भवितुम्, तथापि औपचारिकं तद् वेदितव्यम् । तन्निमित्तन्तु यथार्थापरिच्छेदकत्वं विज्ञेयम् । एवं च संशयादिज्ञानपरिहारार्थ सम्यक्पदनिवेशः । ज्ञानपदेनाचेतनस्येन्द्रियसन्निकर्षादेः प्रामाण्यव्यवच्छेदः । नहि सन्निकर्षादिः प्रमाणम् , स्वार्थव्यवसितौ तस्यार्थान्तरस्येव साधकतमत्वाभावात् । नचायमसिद्धो हेतुः, सन्निकर्षादेर्घटादेरिवाचेतनत्वेन स्वनिश्चये करणत्वविरहात् । अतएवार्थनिर्णयकरणत्वमपि कुतः१, नहि नाम स्वनिश्चितावकरणस्य घटादेरिवार्थनिगीतौ साधकतमत्वमर्हति भवितुम्, स्वप्रकाशे प्रगल्भस्यैव हि प्रदीपस्येव परप्रकाशनप्रभुतोपपन्नचरी । अपिच प्रमाणप्रभवा प्रमितिरज्ञाननिवृत्तिरूपा, तदुत्पादे च करणीभवता तावदज्ञानविरोधिनैव भवनीयम्, नचाक्षसन्निकर्षादिकमज्ञानविरोधि, अचेतनत्वात् तसादज्ञानविरोधिनश्चेतनधर्मस्यैवोचितः करणत्वाभ्युपगमः । लोकेपि ध्वान्तसङ्घातविघाताय तद्विरोधिभावं दध्राणं प्रकाशमेवोपासीना भवन्ति चेतखिनः, न पुनर्घटादि, तदविरोधित्वात् । एतेन खप्रकाशत्वं ज्ञानस्य सामर्थ्यात् नियूदं भवति, घटमहं वेमि इत्यादौ कर्तृकर्मवत् ज्ञप्तेरप्यवभासनात् ज्ञानस्य स्वसंवेदनत्वसिद्धेः, ज्ञानं प्रकाशमानमेवार्थ प्रकाशयति प्रकाशकत्वात् प्रदीपवत्

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96