Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 68
________________ (शब्दक्रियाभावे) श्रोत्रेण शब्दग्रहणं न स्यात् तस्य शब्ददेशेऽगमनात् गमने वाऽवान्तरालवर्तिशब्दानामपि ग्रहणप्रसङ्गात् अनुवातप्रतिवाततिर्यग्वातेषु च प्रतिपत्त्यप्रतिपत्तीषत्प्रतिपत्तिभेदाभावप्रसङ्गाच्च तस्य तत्कृतोपकाराद्ययोगात्। न च भेाद्यवच्छेदेन जनितेनाद्यशब्देन निमित्तपवनतारतम्यातारतम्ये कदम्बगोकलकवीचीतरङ्गन्यायेन जनितेष्वनुपरिपाटीतः कप्रदेशप्राप्तेषु शब्देषु नानुपपत्तिः श्रावणस्येति साम्प्रतम् । चापमुक्तबाणसमानजातीयैः प्रतिक्षणप्रभवैरन्यैरेव लक्ष्यप्राप्तिरिति ब्रुवतः शाक्यस्यापि प्रामाणिकत्वापत्तेः। एतेन “आद्यशब्देन बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तेनैव शब्देन जन्यते तेन चापरः एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इत्यादि” तथा“वीचीतरङ्गन्यायेन, तदुत्पत्तिस्तु कीर्तिता ॥ कदम्बगोलकन्याया-दुत्पत्तिः कस्यचिन्मते ॥१॥" इति विश्वनाथपञ्चाननवचो “भेयादिदेशमारभ्य द्वितीयादिशब्दाः शब्दजा” इति तर्कसङ्ग्रहदीपिकाकारवचनमपि व्युदस्तम् ॥ वस्तुतस्तु शब्दस्य द्रव्यत्वे श्रोत्रसंयोगेनैव तद्ग्रहोत्पत्ताबुक्तगौरवाङ्गीकारे प्रमाणाभावान च स एवायं बोण इत्यादि प्रत्यभिज्ञानाद् बाणादावेकत्वसिद्धिः, स एवायं क इत्यादिरूपा

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96