Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(१९) ननु वृत्त्यनियामकसम्बन्धेनाश्रयत्वस्यास्वीकारात् कथं व्यभिचार इति चेत्, तथा सति हेत्वसिद्धिरेव । अन्त्ये च भेदाभेदाङ्गीकारे स्याहादापत्तिः।न च समवायेनेति कथं तदापत्तिः, भिन्नाभिन्नेत्यादिविकल्पतस्तदनुपपत्तेस्तदङ्गीकारे प्रमाणाभावात् । किञ्च गगनाश्रयस्वेन शब्दस्य गुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिस्सनिकर्षाविशेषात्, न च कर्णशष्कुल्यवच्छेदेनोत्पन्नो गृह्यते इति साम्प्रतम्, अवच्छेद्यस्याऽऽकाशत्वेनाविशेषात्, तदन्यत्वे शब्दस्य तत्रासमवायादनायासादेव द्रव्यत्वसिद्धिः । न च तत्तत्पुरुषीयादिघटितभिन्नभिनसन्निकर्षाभ्युपगमेन न साऽऽपत्तिरिति साम्प्रतम् , द्रव्यत्वे संयोगेनैवोपपत्तौ तादृशमहागौरवाङ्गीकारे प्रमाणाभावात् । एतेन “शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः कारणम्” इतिवचोऽप्यवगणितम् । ननु शब्दो विभुद्रव्यं मूर्त वा, आधे सर्वेषामपि ग्रहणापत्तिः, मूतद्रव्यत्वे च मूर्त्तद्रव्यप्रत्यक्षं प्रत्युद्भूतरूपस्य कारणत्वान्न तच्छ्रावणमिति चेत्, न, मूर्त्तद्रव्यप्रत्यक्ष प्रति योग्यताविशेषस्यैव हेतुत्वात्। तथा चोक्तम्भव्यजनमनोमयूरवारिदैः श्रीमद्यशोविजयवाचकैः॥
"द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति योग्यताविशेषस्यैव हेतुत्वात् । स च व्यावृत्तिविशेषः शक्तिविशेषो वा”

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96