Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 77
________________ (२३) हेतुः, तथा हि अतिप्रयासशब्दितशब्दाभिघातादिना गिरिगह्वरादिषु प्रतिदिशं प्रसरन्तःशब्दाःसञ्जायमानाः शृणुमो वयम्, ततः स्पर्शवत्त्वान्मूर्ती एवेति सिद्धम् , "रूपस्पर्शादिसन्निवेशो मूर्तिः, इति वचनात्॥ रूपस्पशादिसन्निवेशो युपपत्तितः वक्ष्याम्यनन्तरमिहैव॥ किञ्चाकाशमेकमने वा, यद्याद्यः पक्षः, तार्ह लक्षयोजनतोऽपि शब्दश्रवणं स्यात्, आकाशस्यैकत्वाच्छब्दस्य च तद्गुणत्वान्निकटदरादिभेदाभावात् ॥ यदोदीचीनो विकल्पः, तदा तु वदनदेशस्थितशब्दस्यान्यनभोवर्तिनः श्रोतुः कथं श्रवणं, वदनदेशाकाशगुणतयाशब्दस्य श्रोतृगतश्रोत्रेन्द्रियाकाशसम्बन्धाभावात्, अतोऽपि न युक्तिमच्छब्दस्याम्बरगुणत्वम् ॥ नन्वाकाशगुणत्वानभ्युपगमे शब्दस्य स्थितिरेव नोपपद्यते, पदार्थमात्रेण चावश्यमेव स्थितिमता भवितव्यम्, तत्र रूपरसगन्धस्पर्शानां पृथिव्यादिभूतचतुष्टयमेवाश्रयः, शब्दस्य तु तदाश्रयत्वानुपपत्त्या आकाशाश्रयत्वं सिछ्यति, ततश्चाम्बरगुणः शब्द इति । तदप्यचारु, एवंसति पृथिव्यप्तेजोवाय्वादिसर्वद्रव्याणामप्याकाशाश्रयत्वेन तद्गुणत्वप्रसङ्गः । तथा च सति आकाशद्रव्याद्वैतवादः समजनि नव्यः। नचाश्रयणमात्रं न तद्गुणत्वप्रयोजकं किन्तु समवायः स चास्ति ध्वनेरम्बरे

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96