Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 87
________________ ( ३३ ) स्प्रसङ्गे निरूपयिष्याम इति । वर्णितश्चाजीवतत्रत्वेऽन्तर्भावः सूत्रकृताख्यद्वितीयाङ्गटीकायां शीलाङ्काचार्यैरपि द्वादशे समवसरणाख्याध्ययने बौद्धनिरासावसरे "शब्दायतनं च पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन ग्रहएम्” इत्यादि, एवं च भाषास्वरूपमामूलं "भाष्यत इति भाषा तद्योग्यतया परिणामितनिस्सृष्टनिस्सृज्यमानद्रव्यसंहतिः " इत्यादि भगवतीद्वितीयशतकषष्ठोद्देशकटीकायामभयदेवसूरिभिः । तथा “वाग्येोगप्रयत्ननिस्सृष्टोऽनन्तानन्तप्रादेशिक पुद्गलस्कन्धप्रतिविशिष्टपरिणामः शब्दः पुद्गलद्रव्यसङ्घातभेदजन्मा ” इत्यादि तत्त्वार्थवृत्तौ द्वितीयाध्याये सिद्धसेनमणिभिरपि सुष्ठु विवेचितम् ॥ अत एव च रूपिद्रव्यावगाहिनोवधिज्ञानस्य जघन्यविषयत्वं तैजसभाषान्तरालद्रव्याणां सम्भवति, तथोक्तमावश्यकनिर्युक्तौ तट्टीकायाञ्च, " 'तेयाभासादव्वाण अंतरे इत्थ लहइ पट्ठवओत्ति" इत्थञ्च द्रव्यभाववाग्लक्षणमावश्यकबृहद्वृत्त्युक्तम् १ द्रव्ययोगलक्षणं चावश्यक सूत्र स्पर्शिकनिर्युक्तितट्टोकोक्तमपि २ उपपद्यते । तथाहि " वच् भाषणे वचनमुच्यतेऽनयेति वाक्, सापि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्याः पुद्गला जीवप१ तेजोभाषाद्रव्याणामन्तरम् अत्र लभते मस्थापक इति ॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96