Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 75
________________ (२१) अत्राहुरुच्छ्रङ्खलनैयायिकाः, शब्दस्य गगनाश्रयत्वे सवयाविरोधादिदोषाहायुगुण एव शब्दः॥ तथाहि शब्दो वायुगुणः तन्नाशादेव तन्नाशात् वायुस्पर्शवदिति चेत्, मैवं, पूर्वोक्तयुक्त्या गुणत्वासिद्धया वायुगुणत्वस्यापि सुतरामसिद्धेः, वायोः सत्त्वेऽप्यनुपलभ्यमानत्वेन स्वरूपासिद्धेः, एजनादिनाऽनैकान्तिकत्वाच्च । अपि च पवनगुणत्वे तत्स्पर्शस्येव स्पार्शनप्रसङ्गः। ननु रसरूपादीनामिव शब्दस्य स्पार्शनप्रतिबन्धकत्वमिति चेत्, मानाभावात्, कल्पनागौरवाच्च, गुणचाक्षुषजनकतावच्छेदकजात्या सह साङ्कर्यात् गुणस्पार्शनजनकतावच्छेदकजातेरप्यसिद्धिः, तथा चोक्तं भविकपद्मविबोधनभास्करैायविशारदैर्यशोविजयवाचकपुङ्गवैः,“शब्दे गुणस्पार्शनजनकतावच्छेदकजात्यभावान्न दोष इति चेत्, न, तादृशजातेरसिद्धेर्गुणचाक्षुषजनकतावच्छेदिकया साङ्कर्यादिति दिग्” इत्यादि। तथा च न वायोगुणः शब्दः। तथैवोक्तं मुक्तावलीकारेण विश्वनाथपश्चाननेनापि " न च सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम् । अयावद्रव्यभावित्वेन वायुविशेषगुणत्वाभावात्" इत्यादि ॥ किश्च मूर्तत्वादेव नाकाशगुणः शब्दः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञानमात्मनः, तथाह्य

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96