Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 78
________________ (२४) सम्बन्धो न तु क्षित्यादीनां तथा । ननु कोऽयं समवायः । परस्परमेकीभावेनावस्थानं यथा पृथ्वीजलादिभिः सह रूपरसादीनामिति चेत्, न, शब्दस्याम्बरगुणत्वासिद्ध्या तेन सह ध्वनेर्लोलीभावेनावस्थानाप्रतीतेः । किश्च समवायस्य सम्बन्धत्वमप्यनुपपन्नमित्यादि सिंहावलोकनेन विलोक्यताम् । अथाकाश उ. पलभ्यमानत्वात्तद्गुणता शब्दस्येत्यप्यपरिपेशलम् । एवं सति अर्कतुलकादीनामम्बर उपलभ्यमानत्वात् तद्गुणत्वासक्तिः। अथार्कतूलकादीनां परमार्थतो भू. म्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थत: स्थानं श्रोत्रादि यत्पुनराकाशेऽवस्थानोपलम्भस्तद्वायुना सञ्चायमाणत्वात्, तथाहि यतो यतो वायु:सञ्चरति ततस्ततः शब्दोऽपि गच्छति ॥ उक्तश्च प्रज्ञाकरगुप्तेन॥ यथा च प्रेर्यते तूल-माकाशे मातरिश्वना ॥ तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित्॥१॥ न च तथापि श्रोत्रग्राह्यत्वेन तदाश्रितत्वाच्छब्दस्य श्रोत्रस्य चाकाशरूपत्वात् तद्गुणः शब्द इति साम्प्रतम्। श्रोत्रस्य गगनात्मकत्वे गगनस्य सर्वत्राविशेषाद्वाधिर्याद्यभावप्रसङ्गात्। एतेन “आकाश एकएव सन्नपि उपाधेः कर्णशष्कुलीभेदाद्भिन्नं श्रोत्रात्मकं

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96