Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(१८) ताया भाषावर्गणायस्स्पर्शवत्त्वेन स्वरूपासिद्धेरनुकूलतर्काभावाच्च । तथा च स्याद्वादमञ्जरीटीकाकारैमल्लिषेणसूरिभिरप्युक्तम्- “शब्दपर्यायस्याश्रयो भा. षावर्गणा न पुनराकाशं, तत्र च स्पर्शो निर्णीयत एव, यथा, शब्दाश्रयः स्पर्शवाननुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धद्रव्याधारद्रव्यपरमाणुवत्” इत्यादि। न चस्पर्शवत्वे तत्स्पर्शस्य स्पार्शनापत्तिः, सिंहावलोकनन्यायेन विलोक्यतां तावत्तदाश्रयस्य सूक्ष्मपरिणामपरिणतत्वात् त्रसरेणोरिव स्पर्शनायोग्यत्वात् तत्स्पर्शस्याप्ययोग्यत्वेन तदुपपत्तेः। अनुमया तु स्पर्शवत्त्वं शब्दस्य सिद्धमेव। तथाहि।शब्दः स्पर्शवान् स्वसम्बद्धार्थान्तराभिघातहेतुत्वादण्डादिवत् । झरुल्लादिध्वनिविशेषाभिसम्बन्धेन श्रोत्राभिघातः प्रतीत एव तजन्यवाधिर्याद्युपलम्भेन। स्पर्शशून्यत्वे च शब्दस्य कालाकाशाभिसम्बन्धवच्छब्दाभिसम्बन्धेपिनासावुपलभ्येत। शब्दसहचरितेन पवनेनैवाभिघात इति तु न।अन्वयव्यतिरेकाभ्यां शब्दाभिसम्बन्धस्यैव तद्धेतुत्वसिद्धेः। अतो पि तस्य द्रव्यत्वसिद्धिः। शब्दस्य स्पर्शवत्त्वे तदाश्रयस्य तद्वत्त्वं सुतरां स्थितमेव ॥ किञ्च किमिदमाश्रयत्वं संयोगेन तादात्म्येन वा, आये गगनसंयुक्तघटादौ व्यभिचारः।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96