Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
स्या अपि सिद्धेः॥वस्तुतस्तु द्रव्यशब्दस्य जीवपरिगृहीतभाषायोग्यपुद्गलसमूहत्वेन भावशब्दस्य च बहिनिगंतनिर्गच्छद्भाषापरिणामपरिणतभाषावर्गणापरमाणुसमूहत्वेन सूक्ष्मत्वात् कपाटादिनाऽप्रतिबद्धस्य बहिरागमनत एव बुद्धिः। तथैव प्रज्ञप्त्याख्यपञ्चमाङ्गे द्वितीयशतकषष्ठोद्देशके प्रज्ञापनायां चैकादशभाषापदे आवश्यकसूत्रस्पर्शिकनियुक्तिटीकायां च प्रतिपादितम्। एवञ्च श्रोत्रस्य सिद्धं प्राप्यकारित्वम् । प्रतिपादिता च श्रोत्रस्य प्राप्यकारितार्थान्तरव्याजेन प्रज्ञप्त्याख्यपञ्चमागे पश्च. मशते चतुर्थोद्देशके। “छउमत्थे णं मणूसे आउडिज्जमाणाई सदाइं सुणेइ तं जहा संखसदाणि वा जाव झुसिराणि वा ताई भंते किं पुट्ठाइं सुणेइ अपुट्ठाइं सुणेइ । गोयमा । पुट्टाई सुणेइ नो अपुटाई" इत्यादि ॥ तथा च भगवत्यां द्वितीयशतकचतुर्थोदेशके प्रज्ञापनायाश्च पञ्चदशेन्द्रियपदप्रथमोद्देशकेऽपि “पुठपविठ्ठत्ती"त्यादिना श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थं प्रविष्टश्च गृह्णन्तीत्यादि निगदितम्। अत एव च “शब्दोऽपि स्वपरिणाममजहद् द्वादशयोजनप्रमितात् प्रदेशादागतः श्रोत्रेण प्राप्यकारिणोत्कर्षाद् गृह्यते” इत्याद्यावश्यकटीकायां
१ छद्मस्थो मनुष्य आकुटयमानान् शब्दान् शृणोति तद्यथा शङ्खशब्दान्वा शुषिराणि वा तानि भदन्त किं स्पृष्टानि शणोति अस्पृष्टानि शृणोति । गौतम। स्पृष्टानि शृणोति नो अस्पृष्टानि।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96