Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
तृतीयः सोपानः। अस्त्यत्र देहिनि व्याधिविशेषः, निरामयचेष्टानुपलब्धेः । अत्रामयो व्याधिः, तेन विरुद्धस्तदभावः, तत्कार्या विशिष्टचेष्टा, तस्या अनुपलम्भः । विरुद्धकारणानुपलम्भो यथा अस्त्यस्य प्राणिनो दुःखमिष्टसंयोगाभावात् । अत्र दुःखविरोधिसुखकारणाभावो हेतुः । विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलब्धेः । अस्त्यत्र छाया औष्ण्याप्रतीतेरिति, अत्र विधेयच्छायाविरोधितापव्यापकौष्ण्यानुपलम्भः । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादर्शनात्, अत्र विधेयमिथ्याज्ञानविरोधिसम्यग्ज्ञानसहचरसम्यग्दर्शनानुपलम्भो हेतुरिति । __ अबाधिताभिमतानधिगतं साध्यम् । अबाधितत्वेन वहिरनुष्ण इत्यादिप्रत्यक्षादिबाधरहितत्वम्, अभिमतत्वेन स्खसिद्धान्तविरुद्धत्वरहितत्वम् , अनधिगतत्वेनानिश्चितत्वं च लभ्यते । कथायां सन्दिग्धस्यैव साध्यस्य साधनं युक्तमिति न सम्यक्, विपर्यस्ताव्युत्पन्नयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन संशयनिरासार्थमिव विपर्ययानध्यवसायव्युदासार्थमपि प्रयोगसम्भवात् । पित्रादिना विपर्यस्ताव्युत्पन्नपुत्रादेः शिक्षाप्रदानाच्च । न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात् , तस्य साभिमानत्वेन विपर्यस्तत्वात् । अबाधितमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया, द्वयोः प्रमाणेनाबाधितस्य कथायां साध्यत्वात् । अभिमतं तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । अत्र व्याप्तिग्रहणापेक्षया साध्यं धर्म एव, इतरथा व्याप्त्यनुपपत्तेः । नहि यत्र यत्र धूमस्तत्र तत्राग्नेरिवाऽग्निमतो भूधरादेरनुवृत्तिरस्ति । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि साध्यं साधनं धर्मी च । तत्र साध्यं गम्यत्वेन, साधनं गमकत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन, आधारविशेषनिष्ठतया साध्यसिद्धेरनुमानप्रयोजनत्वात् । धर्ममात्रस्य तु व्याप्तिनिश्चयकाल एव सिद्धेः, यत्र यत्र धूमस्तत्र तत्रानल इति । अथवा पक्षो हेतुरित्यङ्गद्वयं तत्र, साध्यध
न्याय०३

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96