Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 31
________________ चतुर्थः सोपानः। तृतीयः। स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया तुरीयः । एकेन पदेनोभयोर्वक्तुमशक्यत्वात् । शत्शानचौ सत् इत्यादौ साङ्केतिकपदेनापि क्रमेणार्थद्वयावबोधनात् । अन्यतरत्वादिना कथश्चिदुभयबोधनेपि प्रातिखिकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । सादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः। स्थानास्त्येव सादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्थानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपविधिनिषेधकल्पनया च सप्तमः । इति सेयं सप्तभङ्गी प्रतिभङ्गं सकलादेशसभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः। नयगोचरीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यात् भेदोपचारेण वा क्रमेणाभिधायकं वाक्यं विकलादेशः इति ॥ ' इति श्रीन्यायतीर्थप्रकरणे आगमप्रमाणस्वरूपप्रतिपादनात्मा चतुर्थः सोपानः॥४॥

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96