Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 36
________________ अहम् । उक्तं प्रमाणम् । अथ नयावसरः । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः । प्रमाणैकदेशत्वाच्चैषां प्रमाणाझेदः । यथा खलु समुद्रैकदेशो न समुद्रः, नाप्यसमुद्रः, तथा नया अपि न प्रमाणम्, नाप्यप्रमाणम् । ते च द्वेधा द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रेधा नैगम-सङ्ग्रह-व्यवहारभेदात् पर्यायार्थिकश्चतुर्धा, ऋजुसूत्र-शब्द-समभिरूलै-वम्भूतभेदात् । तत्र धर्मधर्मिणोर्धर्मयोधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः । यथा क्षणमेकं सुखी विषयासक्तो जीवः इति धर्मधर्मिणोः । सचैतन्यमात्मनीतिधर्मयोः। वस्तु पर्यायवद् द्रव्यमिति च धर्मिणोः। धर्मद्वयादीनामैकान्तिकपार्थक्याभिप्रायो नैगमाभासो दुर्भेगमः इत्यर्थः । यथाऽऽत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः । नैयायिक-वैशेषिकदर्शनं चेदम् । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । स च परोऽपरश्च । तत्राद्यो:शेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्वानः। यथा विश्वमेकं सदविशेषात् इति । सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणः परसङ्ग्रहाभासः । यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् । एतच्चाद्वैतवादिसाङ्ख्यदर्शनम् । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्यमानस्तविशेषेषु गजनिमीलिकामवलम्बमानोऽपरसङ्ग्रहः यथा धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाविशेषात् इत्यादिः। द्रव्यत्वादि प्रतिजानानस्तद्विशेषानिढुवानस्तदाभासः यथा द्रव्यत्वमेव तत्त्वम् , ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः । सङ्ग्रहेण गोचरीकृतार्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः । यथा

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96