Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 38
________________ २८ न्यायतीर्थप्रकरणम् । इन्द्रादिव्यपदेशभाजमङ्गीकरोति। न हि कश्चिदक्रियाशब्दोऽस्यास्ति। गोरश्व इत्यादिजातिशब्दानामपि क्रियाशब्दत्वात् , गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इत्यादिगुणशब्दा अपि क्रियाशब्दा एव । शुचीभावाच्छुक्लः, नीलनान्नील इति । देवदत्तो यज्ञदत्त इत्यादि यदृच्छाशब्दा अपि क्रियाशब्दा एव । देव एनं देयात्, यज्ञ एनं देयादिति । संयोगि-समवायिद्रव्यशब्दा अपि क्रियाशब्दा एव । दण्डोस्सास्तीति दण्डी विषाणं भवत्यस्येति च विषाणीत्यस्ति क्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां प्रवृत्तिय॑वहारमात्रात् इति । तथाचेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः । यथाविशिष्टचेष्टाविहीनं घटवस्तु न घटपदवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाराहित्यात् पटवदित्यादिः । एषु चाद्याश्चत्वारोऽर्थप्रधानाः शेषास्तु त्रयः शब्दप्रधानाः । अत्र पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषयः इति । नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिधाभ्यां सप्तभङ्गीमनुव्रजति । प्रमाणसप्तभङ्गीवदेतद्विचारः करणीयः । नयसप्तभङ्गीध्वपि प्रतिभङ्गं सात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी, वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी, सम्पूर्णवस्तुखरूपप्रज्ञापकत्वादिति । प्रमाणवदस्य फलं व्यवस्थाप्यम् । प्रमाता तु प्रत्यक्षादिमसिद्धश्चैतन्यस्वरूपः परिणामी को साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौगलिकादृष्टवाँश्च जीवः । अत्र चैतन्यपरिणामित्वोत्कीर्तनेन जडखरूपः कूटस्थनित्य आत्मा यौगाभिमतो व्यपाचक्रे । कर्ता साक्षाद्भोक्तेति युगलेन कापिल

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96