Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
__ न्यायतीर्थप्रकरणम् । वर्तमानविवर्त्तवर्ति द्रव्यमलं सङ्कलयितुम्, तस्यातीतविवर्त्तमात्रगोचरत्वात् । नापि दर्शनम्, तस्य वर्तमानमात्रपर्यायविषयत्वात् । तस्मात् अतीतवर्तमानकालसङ्कलितैक्यसादृश्यादिविषयावलम्बनत्वेनानुभौतिकं संवेदनं प्रत्यभिज्ञानपदार्थोवश्यमेषितव्यम् । विषयभेदे प्रमाणभेदनियमात् । यत्तु प्रत्यक्षमेवेदमित्याहुः, तन्न, प्रत्यक्षस्य सन्निहितवार्त्तमानिकार्थविषयत्वात् । स्मरणसहकृतमिन्द्रियं तदेकत्वविषयं प्रत्यक्षमुपजनयतीत्यप्यसाधु, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् , इतरथा पर्वते चित्रभानुप्रत्ययस्यापि व्याप्तिस्मरणादिसापेक्षमनसैवोपपन्नत्वेऽनुमानमात्रोच्छेदापत्तेः । अपिच सम्भवत्यपि सहकारिसहस्रसमवधाने न सम्भवत्यविषये प्रवृत्तिः, अविषयश्चेन्द्रियाणां पूर्वोत्तरावस्थाव्याप्येकत्वादि, नातः स्मरणसाहाय्येपि तादृशं ज्ञानमुत्पादयितुं शक्युरिन्द्रियाणि । अञ्जनादिसाहायकेपि चक्षुर्व्यवहितमपि रूपमेव गृह्णाति नतु स्वाविषयं गन्धादीति विषयविशेषद्वारेण प्रमाणविशेषव्यवस्थापनात् उक्तलक्षणैकत्वादिविषयग्रहोपयिकं प्रमाणान्तरमवश्यमेषितव्यम् तदेव च प्रत्यभिज्ञानमिति ।
व्याप्तिज्ञानं तर्कः । तत्र साध्यसाधनयोर्गम्यगमकभावप्रयोजको व्यभिचारगन्धमसासहिः सम्बन्धविशेषोऽविनाभावो व्याप्तिरिष्यते । एतत्प्रभावमहिम्ना च धूमध्वजं गमयितुमधीष्टे धूमः । तस्याश्चान्यथानुपपत्तिरूपाया व्याप्तेः प्रमितौ साधकतमं ज्ञानं तर्कः इति ऊह इति चोच्यते। अयं च तर्कः सकलदेशकालोपसंहारेण व्याप्तिं विषयीकरोति, यथा यावान् कश्चित् धूमः स सर्वः सत्येवाग्नौ भवति, तसिन्नसत्यसौ न भवत्येवेति । प्रत्यक्षय सन्निहित एव देशे सम्बन्धप्रकाशनात् न व्याप्तिगमकत्वम्, सर्वोपसंहारवती हि व्याप्तिः। प्रत्यक्षपृष्टभाविविकल्पेनाप्यशक्य एव व्याप्तिग्रहः, निर्विकल्पेन व्याप्तेहीतुमशक्यत्वात् । निर्विकल्पगृहीतार्थविषयो हि विकल्पः । निर्विकल्पविषयानपेक्षोऽर्थान्तरगोचरो विकल्प इति चेत् ? तीसौ प्रमाणम् ? ओमिति चेत् ? प्रत्यक्षानुमानातिरिक्तप्रमाणाभ्युपगमप्रसङ्गः। अप

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96