Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
अहम् । उक्तलक्षणं प्रमाणं द्विविधम् । प्रत्यक्षपरोक्षभेदात् । तत्र स्पष्टं प्रत्यक्षम् । स्पष्टत्वं पुनरनुमानाद्याधिक्येन विशेषप्रकाशनम् , प्रमाणान्तरानपेक्षत्वं वा । तद् द्विधा पारमार्थिकं सांव्यवहारिकंच। तत्रेन्द्रियादिनरपेक्ष्येणात्ममात्रापेक्षोत्पत्तिकं पारमार्थिकं प्रत्यक्षम् । तदपि द्विभेदम् ,विकलं सकलंचेति । तत्रावधिमनःपर्यायौ विकलम् , असम्पूर्णविषयत्वात् । सकललोकालोकावभासस्वभावं पुनः केवलज्ञानं सकलम् । एतच्चावरणाष्टकप्रक्षयादुदेति । आवरणं पुनः कर्मैव, तस्य च विरोधिना सम्यग्दर्शनादिना प्रध्वंसात् केवलसिद्धिः । सूक्ष्मान्तरितदरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवत् इत्यनुमानात् तत्सिद्धिः। अपिचाकाशादौ परिमाणातिशयेनेव प्रज्ञाया अतिशयेनाप्यवश्यं कचित् भाव्यं विश्रान्तिमता । यत्र च निरतिशयप्रज्ञासिद्धिः, सएव सर्वज्ञः । यत्तु सम्मतिटीकायां केवलज्ञानस्य प्रकृष्टभावनाजन्यत्वोक्तिस्तदभ्युपगमवादेन द्रष्टव्यम् । सच सर्वज्ञोऽर्हन्नेव निर्दोषत्वात् । नचेदमसिद्धम्, प्रमाणाविरोधिवाक्त्वेन तत्सिद्धेः । नचेदमनुपपन्नम्, तदभिमतानेकान्ततत्त्वस्य प्रमाणेनाबाधात् । नचायमीश्वरो जगत्सष्टिव्यवसायी, कृतकृत्यत्वात् । निष्प्रयोजनप्रवृत्तेः प्रेक्षाणामनुपपत्तेः । प्रतिक्षणं विपरिणममानमपि जगद् द्रव्यार्थतोऽन्यायेव । नच कवलभोजिनः कैवल्यानुपपत्तिरिति प्रेर्यम् । कवलाहारस्य कैवल्येनाविरोधात् । औदारिकशरीरवतोऽवश्यं क्षुत्सम्भवात्, निष्ठितार्थस्य च क्लेशपरीषहप्रयोजनाभावात् , निर्मोहत्वेनैव गमनादिक्रियावत् भुक्तिक्रियायाः केवलिनोभावात, अपरथा चतुस्त्रिंशदतिशयानुपपत्तेस्तीर्थपतीनां दुर्वारत्वाच्च । इत्थं च सत्यपि केवलज्ञाने औदारिकशरीरवतो वेदनीयादिसामग्रीसम्भवकवलाहारे न कश्चिद्वाधः । एतच्च केवलज्ञानं पुरुषवत् स्त्रियोपि सामग्रीसमवधाने सम्भवत् नासम्भवं ज्ञेयम् नच सामग्रीसमधानमेवासम्भवम् , पुरुषवत् तस्या अपि सम्भ

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96