Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१७. लोकाचारानुवृत्ति:- शिष्टपुरुषैः मान्यजनैः साधुजनैर्वा यथा व्यवहियते तथा व्यवहारोऽस्माभिर्विधीयेत । तथाविधदेशकालयोर्या शिष्टसम्मता प्रणालिका-चर्याऽस्ति तदनुगुणमेव सदा वर्तनीयम् । आस्तां साधुजनैः सामान्यजनैरपि न जनविरुद्धं कार्यं कर्तव्यम् ।
कथितं च लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥ (प्रशमरतिप्रकरणम् - १३१)
Jain Education International
अन्यथा स्वदेशकालविरुद्धाचरणेन तु तद्देशवासिजनताया विरोधसम्भावनात् भवेदनर्थः ।
१८. सर्वत्रौचित्यपालनम् - सर्वेषु स्थानेषु कालेषु जनेषु चौचित्यपूर्वकमेव सज्जनैः व्यवहर्तव्यम् । अत्रौचित्यार्हा नव विद्यन्ते । यथा- पिता माता बन्धुः पत्नी: तनयः स्वजनाः गुरुजना: नागरिकाः धार्मिकाश्च । १९. गर्हितेऽप्रवृत्तिः- यैः कार्यैः धर्मः स्ववंशश्च कलङ्कितौ स्यातां तानि निन्द्यकार्याणि कण्ठगतैः प्राणैरपि न आचरितव्यानि । निन्द्यकार्यकारिणोऽन्यत् शुभमपि कार्यं जने भवत्युपहासाय । तादृशामशुभकार्याणां त्यागादेवाऽऽचारशुद्धिर्भवति, तथाऽऽचाराशुद्धिरेव वस्तुतो धर्मोऽस्ति । अन्ते भिन्न-भिन्नरीत्योपरिवर्णितं सदाचारस्वरूपमवगम्य यदि चेत् केनाऽपि प्रकारेणाऽस्माकं जीवनेऽसदाचारो वर्तेत तदा तमसदाचारं विहाय वयं सर्वे लेशतोऽपि सदाचारिणो भवेमेति मे मतिः ।
55
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140