Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ की बहुमानरूपेण प्रदत्तो मृगराज आण्ड्रोक्लिसेन रोमनगरवीथिषु श्वा इव इतस्ततो नीयमानो जनान् बहु रञ्जयति स्म । यद्यपि ते पशुपक्षिणः साहित्यसंगीतकलासु पुण्यपापविवेचने, दीर्घविस्तृतयोजने च मनुष्याणामपेक्षया दौर्बल्यं न्यूनसामर्थ्यं च दधते, तथापि कृतज्ञताविषये, उपकारस्मरणे, मनुष्यजाति नूनमतिशेरते ननु ? अत्रैव अहिंसानुष्ठानप्रसङ्गे प्रकृते प्रकरणान्तरं तत्रैव बैबल-ग्रन्थे निदर्शनत्वेन लभ्यते । मार्गच्युतपुत्रपरावर्तनप्रसङ्गे (Return of the prodigal son) तस्य मार्गभ्रष्टस्य पुत्रस्य परावर्तनसमये तमभिनन्दितुकाम उत्सवमाचरितुकामश्च तस्य पिता सेवकानादिशति-'गच्छत तूर्णं, पीनं सुपरिपुष्टं गोवत्समानयत, तं छित्त्वा सर्वे वयं आकण्ठपूर्ति भक्षयित्वा नन्दामः' इति । नूनमिदं 'आत्मौपम्येन प्रातिवेश्मिकस्य प्रीणनं' नैव (Loving thy neighbour as thyself) भवितुमर्हति । ____ अत्र कश्चिदाक्षिपेत् - 'हिन्दुधर्मीयेष्वपि स्वजिह्वातोषणाय प्राणिजातस्य प्राणानपहरत्सु सत्सु कथमिदमन्यधर्मीया एव प्राणिहिंसया अधिक्षिप्यन्ते ? अत्र समाधीयते - योऽपि चाण्डालः अस्मत्सहजीविनां मूकप्राणिनां प्राणानपहरन्ति मृगयाव्यसनेन वा, मांसभक्षणेच्छया वा, सोऽयं, यत्किमपि नाम दधातु तत्र न कश्चिद्विशेषः । सोऽयं हिन्दुम्लेच्छो वा महम्मदीयम्लेच्छो वा क्रैस्तवम्लेच्छो वा अन्यनाम्नो वा म्लेच्छो भवतु तस्य गुणकर्मनिर्णीतो म्लेच्छस्वभावः म्लेच्छत्वं क्रूरकर्मित्वं तं । न जहाति । एवमपि हिन्दुधर्मीयाणां, अर्थात् सनातनधर्मीयाणां तु समाधानकरोऽशो विद्यते यत् एतन्म्लेच्छवृत्तिमातिष्ठतां प्रतिशतं संख्या (Percentage) इतरधर्मीयाणामपेक्षया अत्यल्पाऽस्ति । उक्तं संगृह्णीमः, महम्मदीयानां आत्मीयता, आत्मौपम्यं च केवलं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140