Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 74
________________ का opan Shrs मनिः स्वेच्छया ततो निरगात । एतन्मध्ये सर्पण साधूपदिष्टमहिंसाव्रतं तत्त्वशोऽक्षरशश्च पालितम् । भृशं प्रकोपितेऽप्यप्रतीकारव्रतनिष्ठं सदैव तूष्णीं स्थितं दृष्ट्वा तन्मार्गगामिनः शालाच्छात्रा लगुडैरश्मखण्डैश्च दीनवराकं तं सर्प प्रहृत्य तं क्षतविक्षताङ्गं मृतप्रायं चक्रुः। कतिचिद्दिनानन्तरमहिंसाव्रतोपदेष्टाऽसौ मुनिपुङ्गवस्तदरण्यमार्गगामी सर्पराजं क्षतविक्षताङ्गं जर्जरितसर्वावयवं, मृतप्रायं, दीनदुर्बलं ईषच्चलितुमप्यशक्तं वीक्ष्य 'किमापन्नं भोः ? कथं तव ईदृशी दुरवस्था ?' इति तं पृष्टवान् । सोऽवदत् पूज्यपाद ! अहिंसा, निर्वैरता, अपकारिष्वपि सर्वथा अप्रतीकारो भवदुपदिष्टास्तत्त्वशोऽक्षरशश्च: मया अनुष्ठिताः । तेन मे इयं दुर्गतिरिति न्यवेदयत् । मुनिरवक्, 'मन्दबुद्धे ! पथि सञ्चरतो दंशनं मा कुरु' इति मात्रमुपदिष्टं खलु मया । 'त्वं सीत्कारं फुत्कारं च मा कुरु' इति नैव उपदिष्टम् । ___ कदाचित् बलप्रयोगं विनाऽपि बलप्रदर्शनमात्रेण क्रियासिद्धिर्भवति । ABI नखनिकृन्तनेनैव कार्ये साध्ये खड्गप्रयोगो नाऽपेक्ष्यते । अनेनाऽहिंसातत्त्वस्य तदनुष्ठानस्य तत्प्रायोगिकतायाश्च विचारोऽवसित - इति शम् । मातेव सर्वभूतानामहिंसा हितकारिणी अहिंसैव हि संसारमरावमृतसारिणी ॥ (योगशास्त्रे-हेमचन्द्राचार्यः) 65 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140