Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ द्यूतकाराणां यद् दण्डनं विहितं तदस्मै भवतात् । नगरारक्षोऽपि तामाज्ञां स्वीकृत्य तं चाऽऽदाय ततो निर्गतवान् । अथैतस्मिन्नवसरे केनचित् कारणजातेनाऽऽगतः प्रातिवेश्मिकराजस्य महामन्त्री तत्रैवाऽऽस्थाने उपविष्ट आसीत् । स एतत् सर्वं दृष्ट्वा विस्मयं प्राप्य राजानं पृष्टवान् - प्रभो ! भवान् हि राजकविभिायावतार इति वर्ण्यते । भवत्कृतस्य न्यायस्य प्रशंसा देश-विदेशेषु क्रियते जनैः । किन्त्वत्र तु सर्वमसमञ्जसं पश्यामि । यत एकस्यैवाऽपराधस्य दण्डस्तत्कारिणां त्रयाणां पुरुषाणां भिन्नो भिन्नो आदिष्टो भवता । एकस्य तूपालम्भमात्रं, नाममात्रं दण्डनं ह्यपरस्य, अन्यस्य तु सम्पूर्णो दण्डः ! नेह भवतो निष्पक्षता दृश्यते। जगति तु भवान् निष्पक्षपातितया विश्रुतोऽस्ति । राज्ञोक्तं - महाशय ! मया ह्यपराधिनां मनःस्थिति परीक्ष्यैव ते दण्डिताः, न तु यथाकथमपि पक्षपातेन वा । यदि भवान् परीक्षितुमिच्छति तस्य दण्डस्य परिणामं पश्यतु । यस्याऽल्प एव दण्डो विहितः स एव सर्वाधिकतया दण्डितोऽस्ति । यश्च सर्वाधिकतया दण्डितस्तस्य त्वल्पोऽपि दण्डो न कृतोऽस्ति । ___मन्त्री तच्छ्रुत्वा निश्चयं कर्तुं ततो विनिर्गतः । सर्वप्रथमं स सेनापतेर्गृहं ।) प्राप्तः । तत्र सर्वानपि स्वजन-परिजनान् उच्चै रुदतो दृष्ट्वा स कञ्चित् तत्कारणं पृष्टवान् । तेनोक्तं - सेनापतेयूंना पुत्रेणाऽधुनैवाऽऽत्मघातः कृतोऽस्ति । तेनैवैते सर्वे रुदन्ति । तच्छ्रुत्वा स्तब्धो मन्त्री यथाकथमप्यात्मानं संयम्य तांश्च मृदुवचोभिः सान्त्वयित्वा ततो निर्गतः । तदनु स नगरश्रेष्ठिगृहमागतः । तत्राऽपि सर्वान् शोकाकुलान् किंकर्तव्यविमूढांश्च दृष्ट्वा तेन पृष्टम् - किमिति भोः सर्वे इयच्छोकाकुलाः दृश्यध्वे ? 100 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140