Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 140
________________ ईश्वरस्य व्यथा (अमेरिका जपान्-रूस्-भारतदेशानां राष्ट्रप्रमुखा ईश्वरस्य पार्वे निजसमस्याः परिहर्तुं गतवन्तः कदाचित्) अमेरिकीयप्रमखः प्रभो ! मम देशाद् भ्रष्टाचारः कदा व्यपगमि-ष्यति? ईश्वरः वत्स ! विंशतेवर्षाणामनन्तरम् / (एतत् श्रुत्वा अमेरिकीयप्रमुख उच्चै रोदितुं लग्नः / सर्वैस्तत्कारणे पृष्टे कथितवान्) अमे०प्रमुखः भोः ! मदीये कार्यकाले भ्रष्टाचारो दूरं न भवितेति रोदिमि / (तदनु-) जपान्-प्रमुखः भगवन् ! मदीयो देशः कदा भ्रष्टाचारवियुक्तो भविष्यति ? ईश्वरः बालक ! वर्षपञ्चदशकानन्तरम् / (अयमपि प्रमुखो रोदनमारब्धवान् / तत्कारणं पृष्टः कथयति-) जपान्-प्रमुखः मम कार्यकाले एव भ्रष्टाचारं दूरीकर्तुं कृताः करिष्यमाणाश्च मे प्रयत्ना न सफलीभविष्यन्तीति रोदिमि। (तत्पश्चात्) रूस-प्रमुखः प्रभो ! ममाऽप्येष एव प्रशनः / कृपया समाधानं ददातु / ईश्वरः वत्स ! तव देशे दशभिर्वर्षेः भ्रष्टाचारः समाप्तिमेष्यति / रूस्-प्रमुखः (उच्चैराकन्दन) अहो ! अहमपि भाग्यहीनोऽस्मि यन्मयि प्रधाने सति मम देशो भ्रष्टाचारेण रहितो न भवितेति / (तदनन्तरं भारतप्रमुखोऽपि ईश्वराय सोत्साहं तमेव प्रशनं पृष्टवान्। प्रशनश्रवणसमनन्तरमेव ईश्वर एवोच्चै रोदितुं लग्नः / एतद् दृष्ट्वा विस्मयचकिता: सर्वेऽपि भगवते रोदनकारणं पृष्टवन्तः / तदा ईश्वरः सखेदमाह) ईश्वरः भोः ! मामकीने कार्यकाले हि कदाचिदपि भारतदेशाद् भ्रष्टाचारो न दूरीभविष्यतीति रोदिमि // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140