Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ 7701200 आत्रेयः जीमूत ! सायंसन्ध्या सन्निहिता । शर्वरी लोकं समावृणोति । तत्प्रतिनिवर्ताव है, यतो हि वृद्धौ ते मातापितरौ तव चिरविरहमसहमानौ तव निरीक्षयैव जीवं धारयतः । जीमूतवाहनः मैवं मित्र ! नाऽहं त्वां निरुणध्मि । गच्छ शीघ्रम् । वृद्धौ सान्त्वय, अचिरादेव त्वामहमनुगच्छामि । शंखचूड: माता निष्फला सोढेति मन्ये । तद्दिशि कथं वाऽहं प्रवर्तेय ? को वाऽस्ति यो मे मार्ग दर्शयिता ? Jain Education International (आत्रेय: जीमूतवाहनेनाऽनुज्ञातोऽरण्यकुटीरं प्रति निर्जगाम । जीमूतवाहन एकल एव समुद्रतीरे प्राणसंकटग्रस्तानां नागानां समुज्जीजिवयिषया तप्तहृदयो व्याकुलितचित्त इतस्ततः परिभ्रमति स्म । सहसा - 'हा ! हतभाग्याऽहं, हा पुत्र ! शङ्खचूड ! कथं त्वां विहाय अहं जीवेयम् ? को वा मां त्राता' ? इतीदमाक्रन्दनं दारुणं श्रुतं तेन । जीमूतवाहनस्तत्र प्रधावितो यत्र गिरिशिखरे बलिपीठस्य उपान्तिके नागमाता स्वपुत्रं शंखचूडं गरुत्मतस्तद्दिनस्य नियताहारत्वेन तक्षकेन भुजगाधिपतिना परित्यक्तं बलिपीठमधिरोढुं सन्नद्धं, कथं कथमपि संरक्षितुकामाऽप्रतिसमाधेया करुणं विलपति । नियतिमनुसृत्य रक्तपटं परिधाय बलिपीठाधिरुरुक्षुः शंखचूडः मातरं सान्त्वयति । जीमूतवाहनस्तयोर्मातापुत्रयोर्मिथः संलापं निकटवर्तिषु गुल्मगुच्छेषु निलीनो निपुणं शृण्वंस्तिष्ठति ।) अम्ब ! मा शुचः । सर्वस्य प्राणिजातस्य देहत्यागोऽपरिहार्यः खलत ? अलं मोहपरवशतया । कथं त्वां हित्वाऽहं जीवेयं वत्स ! आभ्यां वृद्धनेत्राभ्यां गरुत्मता ह्रियमाणं त्वां कथं वा पश्येयम् ? न नैव पुत्र ! यच्छ मे रक्तपटपरिधानं, त्वत्स्थानेऽद्य अहमेव बलिर्भवानि । वृद्धशरीरस्य 112 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140