Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 135
________________ कोपनः रे दुष्ट ! एकयैव चपेटया प्रहृतस्त्वं लङ्कां प्राप्स्यसि । भोः ! अहं कन्याकुमारीमेव जिगमिषुः । अतः स्वल्पं शमनः H W शनैः प्रहर ॥ मितेशः भोः ! कथमुद्विग्नोऽसि त्वम् ? रीतेशः हन्त ! मम पितृव्यो मृतः । मितेशः का सेवा कृता तस्य त्वयाऽद्यपर्यन्तम् ? रीतेशः अन्तिमकाले मयैवोन्मत्तचिकित्सालयं प्रापितवान् । मितेशः किमर्थमेवं कृतवान् भवान् ? रीतेशः तेन "आत्मनः सर्वाः सम्पदो मह्यं दत्ताः" इति लिखितमासीत्, "तत्तेन मनसः स्वस्थतया लिखितं न वा" एतदेव प्रमाणीकर्तुं चिकित्सालयं प्रापितवान् । आपणिकः भोः ! भवताऽस्मदापणात् यत् कार्-यानं क्रीतमासीत् तत् कथं प्रचलति । . ८ ग्राहकः किं वक्तव्यं तत्र ? ऋते घण्टिकां (Horn) तस्य यानस्य सर्वेऽपि विभागाः शब्दं कुर्वन्ति । 126 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140