Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 133
________________ । मित्र ! त्वं मम विवाहकाले सार्द्धमेव स्थास्यसि खलु ? अवश्यम्, अवश्यमेव ! अहं न तादृशं * मित्रं यदापत्तिकाले पृष्ठं दर्शयेयम् । विवाहप्रसङ्गे भोजनसमारम्भः प्रवर्तमान आसीत् । विद्युत्प्रकाशस्तदा नाऽऽसीत् । ०० + एकत्र तैलदीपं प्रज्वाल्य तस्य प्रकाशे सर्वेऽपि पङ्क्तौ भोजनार्थमुपविष्टा आसन् । केचन : * जना भोजनं पुरस्कुर्वन्त आसन् । एकैकं खाद्यपदार्थं गृहीत्वा सर्वेषां पात्रेषु ते मुञ्चन्त + 2. आसन् । किन्तु दैवयोगादेकस्य प्रौढजनस्य पात्रे केनापि किमपि न दत्तम् । अल्पप्रकाशात् ४ कस्याऽपि लक्ष्यमपि तत्र न गतम् । एवमेव च काचिद् वेला व्यतीता। स प्रौढश्चिन्तितवान् – यत् कोऽप्युपायो योजनीयः, अन्यथा बुभुक्षितेनैव गन्तव्यं भविष्यति । अतः क्षणं विचार्य . + स उच्चैरुक्तवान्___ अरे ! भोः ! पश्यन्तु पश्यन्तु, किमपि पतितं मम पात्रे । तस्य तादृशं भयमिश्रितं स्वरं श्रुत्वा केचन तैलदीपं गृहीत्वा धावन्त इवाऽऽगताः-3 X कुत्राऽस्ति ? किं पतितम् ? ___ पश्यन्तु, पात्रे पश्यन्तु, किमपि पतितं मन्ये ! - प्रौढ उक्तवान् । तैलदीपं पुरतः कृत्वा सर्वैर्दृष्टं किन्तु किमपि न लक्षितमतः - 'किं वदति भवान् ? किमपि नास्त्यत्र !' - इत्यवदन् । ___ तदा प्रौढोऽवदत्- भोः ! तदेव कथयामि यत् किमपि नास्ति मम पात्रे ! 124 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140