Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 131
________________ - जीमूतवाहनः नूनं यद्यपि त्वयोदाहृतेन सूक्तिवचसा हिंसाया, वैरभावस्य च निष्कारणत्वं प्रतिपाद्यते, तथाऽपि सुविचारितं चेत् सर्वस्य समाचरणस्य सकारणत्वमेवाऽवगम्यते । कार्यस्य दृष्टस्य कारणवत्त्वेनैव भाव्यमिति निरपवादो नियमः। स्वार्थ एव स्वदेहपरिच्छिन्नात्मबुद्धिकृतो, लोके हिंसायाः वैरभावस्य मूलकारणमिति मे निश्चितिः । सर्वात्मनिष्ठया स्वदेहपरिच्छिन्नात्मबुद्ध्यत्यय एवाऽहिंसाया निर्वैरभावस्य रहस्यं मूलं चेति मे निबोध सखे ! समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ।। (तदनु पश्चात्तप्तेन मतङ्गेन प्रत्युपाहृतं विद्याधरराज्यं माता-पित्रोरनुज्ञया जीमूतवाहनो जग्राह, प्रजाश्च प्रेम्णा दक्षतया च प्रशशास । इति ॥) D पर Pum ॥ नागानन्दनवनीतं नाम रूपकं समाप्तम् ॥ um m D Kmmm D सिया Kा mmm पm Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140