Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 128
________________ KTM Hum Im शंखचूडः भो भोः ! नाऽसौ नागः, सोऽसौ जीमूतवाहनो राजकुमारो विद्याधराणां कुलचूडामणिः । अहमेव नागो योऽद्य त्वत्कृते उपहारीकृत आसीत। उपस्थितोऽस्मि तव नियतो बलिः । जीमूतवाहनः मैवं शंखचूड ! मृत्युमुखात् तव विमोचनाय, भग्नहृदया।यास्तव मातुर्नेत्राभ्यामश्रुप्रमार्जनाय कृतसंकल्पं मां भग्नसंकल्पं मा कुरु । (वृद्धदम्पती मलयवती च क्षणद्वयेन तत्र उपस्थातारो यत्र जीमूतवाहनः क्षतविक्षताङ्गो लेशमात्रावशिष्टप्राणः सन्निहितमृत्यु मौ विलुण्ठति ।) जीमूतवाहनः शंखचूड सखे ! क्षिप्रं मच्छरीरमाच्छादय, येन क्षतविक्षतं रुधिराप्ला वितं मत्प्रियजना मैक्षिषन्त । विह्वला वीतसंज्ञा च मा भूवन् । (शंखचूडः स्ववस्त्रमवमुच्य त्वरया जीमूतवाहनशरीरमाच्छादयति येन ते तस्य बन्धुजनास्तं दारुणस्थितं न पश्येयुः ।) ' र m पा , पञ्चमं दृश्यम् एम्पो एप Im माया FULL (गरुडो जीमूतवाहनं रुधिराप्लावितशरीरमार्तभीतस्य कस्यचिदेकस्य जन्तोर्जीवस्य रिरक्षयिषया स्वीयममूल्यं सर्वभोगसाधनसंपन्न जीवमुपाहतवन्तं विलोक्य तत्क्षण एव व्याकुलितहृदयो पश्चात्तापेन संतप्तहृदयो स्वात्मानमधिक्षिपति ।) धिङ् मां । क्वैषो दीनदुर्बलजीविनः समुद्धर्ता, क्वाहं दीनदुर्बलजीविनो निघृणनिहन्ता ? इमं महात्मानं नागं मन्वानोऽहमविचारेण नागभक्षणलालसयाऽमुं विद्याधरं मृत्युमुखं प्रावेशयम् । अद्याऽहं प्रतिजानामि यदितः प्रभृति कामं मे प्राणा बुभुक्षया मां जयुः, KINगरुड: VAR 119 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140