Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 107
________________ कथा संस्कृतिः मुनिधर्मकीर्तिविजयः प्रायः पूर्वतनकालीनस्य 'मुम्बाई'नगरस्येयं कथाऽस्ति । तदात्वे इदानींतनकालवन्नाऽतिविस्तृतं तन्नगरम् । तथाऽपि सुखसाधनसंभारैः संपूर्णमासीत् । तत्र वसन्तो गृहिणो धनिकाः किन्तु तेऽभिमानिनोऽप्यासन् । तन्नगरात् नाऽतिदूरं वनमेकमासीत् । केचिनगरजना वनात् काष्ठान्यानीय विक्रीणन्ति स्म । एकदा काचिदेका दुर्बला वृद्धा काष्ठाभारं मस्तकस्योपरि धृत्वाऽऽगच्छन्त्यासीत् । किन्त्वतिभारात् परिश्रान्तया तया स काष्ठभारोऽधो मुक्तः । कञ्चित् कालं विश्रम्य तं काष्ठभारं ग्रहीतुं प्रयतते स्म, किन्तु तं काष्ठभारं मस्तकस्योपरि स्थापयितुं न प्राभवत् सा । ततस्सा मार्गे गच्छतो जनान् विज्ञपयति स्म, परन्तु न केऽपि जनास्तां वृद्धां साहाय्यं कुर्वन्ति स्म । एवं कश्चित् कालो व्यतीतः। तदा धृतनूतनोज्ज्वलवसनस्तेजोन्वितमुख एकः पुरुष आगतः । तेन दृष्टा सा वृद्धा । तस्याः परिस्थितिं ज्ञात्वा तत्र गत्वा स्वयमेव तं काष्ठभारं गृहीत्वा तस्याः मस्तके स्थापितवान् । वृद्धाऽतीव प्रसन्ना बभूव । - नाऽन्य एष कोऽपि, किन्तु "महादेव रानडे" इति भारतस्याऽनन्यो देशभक्तः सन्निष्ठो न्यायाधीश आसीत् । Jain Education International 98 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140