Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ कथा एतादृशोऽनुसरणीयः मुनिधर्मकीर्तिविजयः आसीत् 'लेनिन्' नामा 'रुस'जनपदस्य नेता । देशाधिपतिः सन्नपि स निरभिमानी आडम्बरशून्यश्चाऽऽसीत्, तत एव देशस्य सर्वजनानां प्रिय आसीत् । सामान्यजनवदेव तस्य जीवनं सरलमासीत्, तथा सर्वैः सह सौम्यमेव व्यवहारं स कुर्वन्नासीत् । देशनेतुळजेन वसनार्थं तेनाऽनेकेऽपवरकाः प्राप्ताः, परन्तु चत्वारि गृहखण्डानि विना सर्वाण्यपि गृहखण्डानि देशस्य भिन्नकार्यार्थं तेन समर्पितानि। एकदाऽऽगतवानेकः कविः लेनिनस्य गृहे । किन्तु तदा लेनिनो देशस्य हितकारिकार्येषु व्यस्त आसीत् । ततः केनचित् सदस्येन "स तु मध्यरात्र्याः पश्चादागमिष्यती"ति कथितम् । ___एतच्छ्रुत्वा कविरभूदुद्विग्नः । तदा निराशामवाप्य गृहं प्रति गन्तुकामः स कविस्तेन सदस्येन पुनराहूतः, प्रोक्तश्च-भवानस्य गृहस्य कस्मिन्नप्यपवरके आस्ताम् । बहिस्त आगत्य स भवता सह चर्चा करिष्यति ।। एकस्मिन् गृहखण्डे स उपविष्टः । मध्यरात्रिः प्रसृता । प्राय एकवादनसमयेऽतीव परिश्रान्तो लेनिनो गृहमागतः । तेनैष आगन्तुको दृष्टः । त्वरितमेव तेन परिश्रममवगणय्य प्रसन्नीभूय च तस्याऽऽगन्तुकस्य स्वागतं Jain Education International For Private 96 sonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140