Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 103
________________ याचसे ? किं न लज्जसे ? मद्गृहे किं धनस्य वृक्षाणि भवन्ति ? - स्वामिन् ! कृपां करोतु । यत्किमपि कृत्वा मम पुत्रस्य प्राणान् रक्षतु । आजीवनं ___भवतो भृत्यो भविष्यामि । एकवारं दयां करोतु । - 'न' इति कथितं मयैकवारं खलु ? किमर्थं वारं वारं वदसि ? न, नैव दद्याम् ! एवं स्पष्टं निर्दयं च निषेधं श्रुत्वा- अथ कोऽपि नास्ति ग्रामे यो मह्यं दद्यात् - इति विचिन्त्य मोहनो हताशो जातः, हृदयं च तस्य भग्नम् । आतुरस्य पुत्रस्य दीनं बुभुक्षापीडितं चिकित्सां विना च शुष्यन्मुखं तस्य स्मृतिपथमागतम् । अतीवदुःखभारात् दीर्घ निःश्वस्य स ततो निर्गतः । गृहे स पुत्रस्य समीपे एवोपविशति । तस्य शिरसि रोगाभिभूते च शरीरे सस्नेहं स स्वहस्तं प्रसारयति । अन्यत्किमपि तस्य पार्वे नाऽऽसीत् । एवमेव च विना चिकित्सां पञ्चदशदिनान्तरे पुत्रो मरणं प्राप्तवान् । मोहनः स्वस्य निराधारतां भावयन् सततं रोदिति किन्तु तस्य दुःखपूर्ण हृदयद्रावकं च रोदनं श्रोतुं तं चाऽऽश्वासनं दातुं कोऽपि तत्र नास्ति । पञ्च दिनानि व्यतीतानि । द्वादशे दिने श्राद्धं कर्तव्यमिति रीतिः । रात्रौ सर्वेऽपि ज्ञातिजनाः सम्बन्धिनश्च तस्य गृहे एकत्र भूताः । मोहनोऽद्य सर्वेषां सहानुभूतेः पात्रमभवत् । सर्वेऽपि प्रतीक्षमाणा उपविष्टा आसन् यद् यदि स रुद्यात् तर्हि वयं सान्त्वनं दास्यामः इति । किन्तु मोहनस्तु जान्वोर्मध्ये शिरोऽवनमय्य किमप्यवदन् शून्यमनस्क उपविष्ट आसीत् । अतः शनैः शनैः सर्वेषां ध्यानं श्राद्धवार्तायां प्रवृत्तम् । श्राद्धे किं किं करणीयं किं किं चाऽऽवश्यकमित्यस्य सूचिरेकेन दर्शिता । अपरेण च तत्र सम्भवितो धनव्ययः प्रदर्शितः - 'तत्र के-के आहूतव्याः, कस्मै कस्मै कियत् कियत् देयम्, आगन्तुकानां भोजनमपि भविष्यति तत्र इयान् व्ययः 94 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140