Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
___ अम्बरीशो राजर्षिः क्रोधमूर्छितेन दुर्वाससा प्रवर्तितया दुष्टशक्त्या कृत्यया अभ्याक्रान्तोऽपि हरिभक्तिवज्रकवचायितः सन् सुतरां निर्भीतोऽप्रकम्पितः सुरक्षितः समासत । ततश्च प्रधावन्तं दुर्वाससं त्रिलोक्यामपि निराकृतशरणार्थिनमनुधावता सुदर्शनचक्रेण बहुक्लिश्यमानाय तस्मै अभयं दत्वा आर्षाहिंसायाः ज्वलन्तं निदर्शनं स्थापयामास । एवमेव प्रह्लादस्य हरिभक्तिपरायणस्य निर्वैरप्रभावेन पित्रा हिरण्यकशिपुना प्रेरिताः सर्वा बाधाः शीघ्रतया निरस्ताः । किञ्च दुरध्यवसायिनो हिरण्यकशिपोरपि सद्गतिः संपादिता । __अर्वाचीनाः कबीर-नानकादयोऽपि आर्षाहिंसायाः श्रेष्ठं निदर्शनं । स्थापयाञ्चक्रिरे । समेषां सात्त्विकानां संख्या लोकेऽतिविरला, अत एव द्वितीयविधा क्षात्राहिंसाऽवश्यानुष्ठेया भवति । राजसाया अस्याः क्षात्राहिंसाया विना केवलया उपर्युक्तया सात्त्विकया आर्षाहिंसया तामसशक्तीर्दमयितुं विजेतुं च सुदुष्करं यतो हि तादृशी सात्त्विकी अहिंसा तामसदुर्जनैः दौर्बल्यमित्येव, प्रच्छन्नक्लैब्यमित्येवमुपेक्ष्यते, परिहस्यते च । अत एव सात्त्विकाहिंसायाः तामसशक्ती: विरुद्ध्य प्रवर्त्यमाने युद्धे क्षात्राहिंसाऽवश्याश्रयणीया भवति । गान्धीमहात्मना प्रयुक्ता केवला सात्त्विकी अहिंसा, क्षात्राहिंसासहायरहिता निष्फला भूत्वा राष्ट्रविभजने (Partition), परकीयदुर्मदान्धैः भारतभूमेराक्रमणे, विशेषेण जम्मुकाश्मीरराज्ये प्रवर्तिते प्रवर्तमाने चाऽव्याहते नरमेधे, पण्डितसमुदायस्य च निष्कासने, निर्वासितत्वे निराश्रितत्वे च पर्यवसिता। अनयैव च सात्त्विकाहिंसया क्षात्रहीनया, दुर्बलतया, अस्थानया मृदुधोरणया एव प्रातिवेशिकराष्ट्रप्रोत्साहितेभ्यो भयोत्पादकेभ्य उग्रवादिभ्यो मुक्तसहायः संपादितः इत्येतत् सर्वं सर्वविदितं, ऐतिहासिकं
63
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140