Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ अत्र प्रथमोऽर्थः संसारिजीवानाश्रित्य सम्भवति । तथा द्वितीयोऽर्थस्तु मुक्तजीवान्- संसारातीतजीवान् प्रतीत्य सम्भवति । एष द्वितीयोऽर्थो न वन्ध्यापुत्रवत् आकाशपुष्पवच्च निरर्थकोऽपि तु चरितार्थ एवाऽस्ति । एतदर्थस्याऽनुभूतिं वयं सर्वेऽपि कुर्म एव । तथाऽपि मुक्तजीवानां सर्वाऽपि चेष्टाऽगम्यैव भवति, अतो नाऽनुभूयतेऽर्वाग्दृग्गोचरजीवैः स्थूरबुद्धिभिश्चाऽस्माभिः सोऽर्थः । अत एव च सोऽर्थो मोघोऽसत्यश्चेति न चिन्तनीयम् । बन्धो ! जगति नैके पदार्था विद्यमानाः सन्ति, किन्तु ते सर्वेऽपि न दृष्टा न च ज्ञाता अस्माभिः । अतीन्द्रियपदार्थास्तु केवलं केवलिगम्या एव वर्तन्ते तथाऽपि तेषां निषेधं यथा न वयं कुर्मः, किन्तु श्रद्धया तान् पदार्थान् स्वीकुर्मः, तथैवाऽत्राऽपि ज्ञेयम् । किं न दृष्टस्त्वया सूर्यः ? स प्रातः यथाकालं प्रतिदिनमाक्रमते । पश्चात् स्वस्य स्वभावानुगुणं प्रकाशनं करोति, नाऽन्यत् किमपि कुरुते । तथाऽपि तस्याऽस्तित्वमात्रेण दर्शनमात्रेण चैव विश्वे सर्वेऽपि व्यवहारा: स्वतः प्रचलन्ति । विहङ्गमा विहायस्युड्डयन्ते, गावश्चरन्ति कृषिं कुर्वन्ति कृषीवलाः, वणिज आपणं यान्ति, बालका विद्यालयं यन्ति, साधुजना अपि स्वकार्ये निमग्ना भवन्ति, सूर्यविकाशिन आमोदन्ते, चन्द्रविकाशिनस्तु म्लानत्वं प्राप्नुवन्ति, तथा स्वकार्यस्याऽवरोधाच्चौरा द्विषन्त्यपि। एवं च सूर्योदये सत्येव सर्वेऽपि स्वस्वकार्ये प्रवर्तन्ते । अथाऽत्र कोऽपि विदग्ध एवं जल्पेत् यद् दिवाकर उदितः, ततस्तेन जनेन दुष्टकार्यमुत शुभं कार्यं कृतमिति, किन्तु तन्नोचितम् । नाऽत्र दिनकरस्य कोऽपि दोषोऽस्ति यतः प्रभाते " प्रकाशनम्उदयन''मिति तु तस्य सूर्यस्य स्वभाव एव । एवं सहजस्वभावतया प्रवर्तने को दोषः ? Jain Education International 67 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140