Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तिस्रो भूमिकास्तस्य क्रमिकाणि त्रीणि सोपानानि ।
तथा च सिद्धमिदं यत्-तत्त्वचिन्तनं तत्त्वविचारणं तत्त्वजिज्ञासा तत्त्वमीमांसा इत्यादयः शब्दा दर्शनसिद्धेः प्राग् वर्तमाना मानसव्यापारा एव न तु दर्शनं स्वयम् । किन्तु द्रष्टारो हि विरला एव भवन्ति, तज्जिज्ञासवस्तु बहवोऽपि सम्भवन्ति । तत्र च केचित् प्रथमां भूमिकामाश्रिताः, केचित्तु द्वितीयां केचिच्च तृतीयामपि । अतः कारणे कार्योपचारं कृत्वा दर्शनस्य कारणभूतः क्रमिक मानसव्यापारोऽपि लोकव्यवहारे शास्त्रादिषु च दर्शनतयैव व्यवहियते ।
अस्या दीर्घचर्चाया मुख्य उद्देशो हि दर्शन-चिन्तनादिशब्दानामर्थच्छायाया यथावज्ज्ञानमेव । येन वयं यथार्थतया-किं दर्शनं? किं चिन्तनं ? किं मननम् ? इत्यादिकं-सम्यक्तयाऽवबुध्यामहे । यतो बहुशो वयं केवलं श्रवण-मनन-निदिध्यासनादिकमेव दर्शनतया गृहीत्वा तदाश्रयमेव चाऽन्तिम सत्यमिति प्रतिपद्य सन्तुष्टा भवामः, अन्यैर्वा सह मतभेदेन दुराग्रहं धारयामः ।।
वस्तुतस्तु दर्शनं योगिज्ञानमेव यद् ऋतम्भरा प्रज्ञा, कैवल्यं, केवलज्ञानं केवलदर्शनं इत्याद्यभिधानैर्विविधासु परम्परासु प्रसिद्धमस्ति । सहैव तासु तासु परम्परासु एतादृशा दर्शनेन विनाऽपि तत्तत् तत्त्वदर्शनं प्रति धार्यमाणं दृढं श्रद्धानमपि दर्शनेत्वेनैव व्यवह्रियते । तथाऽपि अतीन्द्रियवस्तूनां साक्षाद् दर्शनं विना केवलं श्रद्धानरूपं दर्शनं तु गौणं व्यावहारिकं परोक्षं वैव दर्शनं न तु प्रधानं प्रत्यक्षं नैश्चयिकं वा दर्शनम् ।।
तथा, इदमपि चिन्त्यमत्र यदध्यात्मविद्यानिरूपकाणि दर्शनशास्त्राणि प्रायशः श्रवण-मनन-चिन्तनकोटिकं कदाचिच्च निदिध्यासनकोटिकमेव तत्त्वं निरूपयन्ति, न तु तदग्रतः किञ्चित् । (यतस्तस्य योगिज्ञानस्वरूपस्य दर्शनस्य निरूपणं हि शब्दातीतं तथाऽनुभवेनैव साक्षात्कर्तुं शक्यम् ।) अतो विचारयामो
NRese%ANpNepKINARENDRAKARARNE
77
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140