Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ । (Indeed a montsrous, cruel act of ordering the killing out of those dumb creatives, our fellow beings, quite unbecoming of the apostle of love). अत्र वैज्ञानिक तथ्यं किमिति जानथ ? वस्तुतः तेषामपि पशुपक्षिणामपि आत्मा मनुष्याणामिव समान एवाऽस्ति । अस्माकमिव इन्द्रियविषयोपभोगः, सुखदुःखानुभवः, मोहशोकादिवेदनाश्च तेषां समानैव । केवलं तेषां वैशिष्ट्यं, न्यूनता च मनुष्याणामपेक्षया इयमस्ति यद् यद्यपि ते इन्द्रियार्थान् भुञ्जते सुखदुःखादिवेदनाश्चाऽनुभवन्ति तथापि 'अहं अस्य प्रमाता भोक्ता कर्ता' इत्येवंप्रकारं विवेचनं आत्मप्रज्ञा अहंबोधश्च (Self-Awareness) तेषां नास्ति । नूनं बुद्धिसामर्थ्य, ग्रहणस्मरण-भावन-योजन-भाविकल्पनादिचित्प्रवृत्तिषु, सौहार्द-मैत्रीसहानुभूति-कृतज्ञतादिविषयेषु ते पशुपक्षिणो मनुष्यानप्यतिशेरते । अत्र प्रसङ्गमेकमुदाहरामः । __ पूर्वं रोम्चक्राधिपत्ये आण्ड्रोक्लिस नामको युवा दास (Slave) आसीत् । एकदा राज्ञो रञ्जनाय आयोजितायां क्रीडायां सिंहेन सह योद्धं स: सिंहावरोधे प्रक्षिप्तः । तत्र युध्यता सिंहेन प्रेमवात्सल्येन स समालिङ्गितः । तेन सिंहेन सह मोदमानं नृत्यन्तं आण्ड्रोक्लिसं वीक्ष्य प्रेक्षकवृन्दं विस्मयमूकं स्तब्धं चाऽभवत् । पूर्वं कदाचित् आफ्रिकीये कस्मिन्श्चिदरण्ये विहरता आण्ड्रोक्लिसेन सिंह एकोऽनतिदूरे पादतले कण्टकविद्धो यातनया दूयमानोऽवलोकितः । सहजानुकम्पया स सिंह मंदं मंदमुपसृत्य पादतलवेधकं कण्टकं विकृश्य च विमोचयामासः । स च सिंह: कञ्चित् स्वोद्देशं पलायितः । अयमेव केसरी यः काकतालीयेन राजभटैः आण्ड्रोक्लिसेन दासेन सह राज्ञो मनोरञ्जनाय यो मरण्यादानीत आसीत् । राज्ञा अभिनन्दिताय आण्ड्रोक्लिसाय C . .. 60 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140