Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 302
________________ नानार्थार्णवसंक्षेपे खड्ने खड़विशेषे तु यादवो(र ? ऽन्व)र्थनामतः। अत्रापि पूर्ववत् सादि मस्तुलुङ्गस्तु पुनपोः ॥ ४८४ ॥ शिरःोहे नपि त्वेतद् दधिमण्डेऽथ पुंसि सः । मर्मरीकोऽनले शूरे द्वे तु श्येनेऽथ सा स्त्रियाम् ॥ ४८५ ।। मनोजवामिजिह्वासु सप्तखेकत्र * तत् पुनः। पितृधर्मणि पुत्रे द्वे समासाद्यत्र पूर्ववत् ॥ ४८६ ॥ मनोहरा तु पिप्पल्या स्त्री मनोहारिणि त्रिषु । मदोत्कटस्तु द्वे पारावतसंज्ञविहङ्गमे ।। ४८७ ॥ मदोत्कटा तु पार्वत्यां स्त्री चैत्ररथनामनि । महेश्वरालये या स्याद् वास्तव्या तत्र तत् पुनः ॥ ४८८ ॥ मदोद्धते त्रिषु मदकलस्तु द्विरदे पुमान् । मदोत्कटे समासादि पूर्ववत् स्याद् द्वयोः पुनः ॥ ४८९ ।। मल्लिकाक्षः सितैनॆत्रैर्युक्ते ज्ञेयस्तुरङ्गमे । हंसे च चञ्चुचरणैमल्लिकैरुपलक्षिते ॥ ४९० ॥ मलिम्लुचस्तु पुंस्यक्तोऽधिकमासे मनीषिभिः । गृहस्थेऽपश्चयज्ञे च तस्करे तु त्रिपु स्मृतः ॥ ४९१ ।। मशके शाबके च द्वे चातके रजकेऽपि च । मजुघोषाप्सरोभेदे समासाद्यत्र पूर्ववत् ।। ४९२ ।। मन्दसानस्तु नार्केऽग्नौ चन्द्रे जीवेऽप्यथ द्वयोः ।। हंसे महीपतिस्तु स्यान्नृपे भव्याख्यपादपे ॥ ४९३ ।। नात्रापि पूर्ववत् सादि महानर्मा पुनर्द्वयोः । मर्यजात्यन्तरे चार्याक्षत्र सादि पूर्ववत् ॥ ४९४ ॥ १. " ववत् स्यात् समासादि' ग. पाठ:. २. लि' ग. पाठः. ३. 'न्थे' ग. पाठः. • 'सा' इति स्यात् । । 'मलिनैरुपलक्षिते' इति स्यात् ।

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342