Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 331
________________ पञ्चाक्षरकाण्डे नानालिङ्गाध्यायः । कृतवेधनशब्दोऽयं कोशातवयाह्वयस्य हि । लताजातिप्रभेदस्य भेदे पृथुफले तथा ॥ ४३ ॥ अन्यस्मिन्नपि च स्वल्पफलभेदे त्रिषु त्वयम् । कृतो यस्य व्यस्तत्र येन वात्राप्यथ खियाम् ॥ ४४ ॥ स्यात् केशवानुजा दुर्गादेव्यां त्रिषु तु केशवः । यस्यानुजस्तत्र ये तु कनिष्ठाः केशवस्य हि ॥ ४५ ॥ तत्र द्वयोरथ पुमान् केशवप्रिय इत्ययम् । वेङ्कटाख्यगिरौ त्रिस्तु केशवो यस्य वल्लभः ॥ ४६ ॥ つ वल्लभे केशवस्यापि स्यात् तु द्वे महदस्वरः । महिषे त्र तु यस्यास्ति तत्र स्याद् गद्गदः स्वरः ॥ ४७ ॥ गन्धमादनशब्दस्तु नृपोः पर्वतान्तरे । रामायणप्रसिद्धे च कचित् स्यात् कपिकुञ्जरे ॥ ४८ ॥ द्वयोस्तु गात्रसङ्कोची जाहकाख्येषु जन्तुषु । गात्रं सङ्कोचयेद् यश्च तच्छीलस्तत्र सत्रिषु ॥ ४९ ॥ द्वयोस्तु गृहवलिभुग् वायसे चटकेऽपि च । चन्द्रिका प्रिय इत्येष चकोराख्यखगे द्वयोः ॥ ९० ॥ यस्येष्टा चन्द्रिका तत्र त्रिरश्री नतुरङ्गुलः । पुमानारम्वधे मानविशेषे शिरसंज्ञके ॥ ११ ॥ त्रिस्तु तद्वत्यथ स्त्री स्यात् पादपे जघनेफला । काकोदुम्बरिकासंज्ञे पनसे तु पुमानथ ॥ १२ ॥ पुनर्नवायां स्त्री जीवबोधनी नस्त्रियोः पुनः । जीवस्य ज्ञापने जीवबोधनावगती पुनः ॥ ५३ ॥ क्लोबे यवनिकायां तु स्यात तिरस्करिणी स्त्रियाम् । की छादनेऽथ ना दन्तधावनः खदिरद्रुमे ॥ ५४ ॥ 1. '7' 11. 713:. + 'सम' इति स्यात् । तथा च बैजयन्ती । 'अङ्गुलोऽस्त्री यवा अष्ट समस्तु चतुरङ्गुलः ' (पृ. ३ श्री. ५२ ) इति ।

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342