Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
पञ्चाक्षरकाण्डे नानालिनाध्यायः। स्त्री स्त्रीभेदे त्रि तु बहुव्रीही क्की कर्मधारये। विलेपनीया स्त्रीलिङ्गा चारभूषणयोषिति ॥ ९१ ॥ क्ली तु (दाधा)तावथो वृद्धदारकः पुंसि भेषजे । छगलान्त्रीसमाख्ये त्रिः पुनद्धस्य गेदके ॥ ९२ ॥ जीर्णभार्येऽप्यथो वृद्धावस्कन्दी ना पुरन्दरे । यस्तु वृतानबस्कन्देत् तच्छीलस्तत्र स त्रिषु ॥ ९३ ॥ - गन्धद्रव्ये तु कस्तूर्यामस्त्री स्याच्छितिचन्दनम् । शितौ च चन्दने शूलनाशकं तु नपुंसकम् ।। ९४ ॥ सौवर्चलाख्यलवणे त्रि तु शूलस्य नाशके। . पष्टिहायनशब्दोऽयं गजे स्याद् द्वे स्त्रियां पुनः ॥ ९५ ॥ समाहारद्विगी पटिहायनी भेद्यवत् पुनः । बहुव्रीहौ हि. तत्रापि स्त्रियां डीप षष्टिहायनी ॥ ९६ ॥ वयस्येवात्र बीबुकः शालादी पष्टिहायना । स्त्री सर्वमङ्गला शैलतनयायां त्रिषु त्वियम् ॥ ९७ ॥ बहुव्रीही तत्पुरुषे परवलिकता स्मृता । अथ ना सर्वतोभद्रो गृहविच्छन्दकान्तरे ॥ ९८ ॥ निम्बवृक्षे च विषमकान्यालद्वारभेदके । स्त्रियां तु सर्वतोभद्रा काश्मर्याभिख्यपादपे ॥ ९९ ॥ यत् तु सर्वप्रकारे साद् भद्रं तत्र त्रिषु स्मृतम् । सर्वतोमुखशब्दस्तु ऋतुभेदे विरिश्चने ॥ १० ॥ ना नीरे क्ली त्रिषु पुनर्यस्य स्यात् सर्वतो मुखम् । . अथो सहस्रवीयर्या स्त्री दूर्वायामपरः पुनः ॥ १०१॥ आचष्टे श्वेतदूर्वायां स वै' नाम भिषग्धरः ।
आहोर्ध्वकण्टका + + + + + + + + त्रिषु ॥ १०२॥ ... 'एवैनां मिच. पाठः. * 'कामिक्ष्यलताभेदेऽथ सत्रि' इति स्यात् । ऊर्ध्वकण्टकासहसवीर्यापदे शतावरीचे रश्येते।
-----
-
--

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342