Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
नानार्थार्णवसंक्षेपे बहुव्रीहावथान्यत्र समासे पूर्ववत् स्मरेत् । रानासंज्ञे तु भैषज्ये स्त्रियां स्यात् सर्पलोचना ॥ १०३ ॥ यथासमासमन्यत्र लिङ्गार्थाववधारयेत् ।' सहस्रपत्रं कमले क्ली समासान्तरेषु तु ॥ १०॥ . प्रतीयात् पूर्ववल्लिङ्गमथ पुंस्यम्लवेतसे । सहस्रवेधी नीवं तु हिनि की तु संयुगे ॥ १०५ ॥ *+ + + + + + + + पुल्लिङ्गस्तु रये त्रिषु ।
सिंहविक्रम इत्येष द्वे विज्ञेयस्तुरङ्गमे ॥ १० ॥ 'समासभेदेष्वन्येषु लिङ्गाद्यर्थोऽत्र पूर्ववत् । सिंहकेसरशब्दोऽयं वकुले नाथ पुन्नपोः ॥ १०७ ॥ सटे सिंहस्य पुल्लिङ्गः पुनः स्यात् सितकुञ्जरः । शके समासभेदेषु त्वर्थो लिङ्गं च पूर्ववत् ॥ १०८ ॥ सुरवल्लभ इत्येष पुन्नागाल्यद्रुमे पुमान् । त्रि तु देवप्रियेऽथो ना सुरभिच्छद इत्ययम् ॥ १०९ ॥ कपित्थे राजजम्ब्वायजम्बूभेदे च स स्मृतः । वाच्यलिङ्गं तु तत्र स्याद् यस्यास्ति सुरभिश्छदः ॥ ११ ॥ हरिचन्दनमत्री स्याद् देवानां पादपान्तरे। . चन्दने तानसारे च पीतचन्दनसंज्ञके ॥ १११॥ हरिमन्थज इत्येष ना धान्ये चणकाहये । पठितोऽमरसिंहेन वैजयन्त्यां त्वपाठि सः ॥ ११२॥ कृष्णमुद्रेत्रिषु त्वेष हरिमन्थसमुद्भवे । हरिलोचन इत्येष उलके स्याद् द्वयोरथ ॥ ११ ॥ सम्भवत्सु समासेषु लिङ्गमर्थश्च. पूर्ववत् । बाधित्वा परवल्लिङ्गं गङ्गायां हरशेखरा ॥ ११ ॥
-
१. 'म्यु' ग. च. पाठ.. • साम्परायिकमित्येतत्' इति पाठः स्यात् । । इतःपरं किश्चिदिवापेक्षितं भाति । '

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342