Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
षडक्षरकाण्डे नानालिङ्गाध्यायः ।
पुंस्यासनप्रभेदे स्वात् तस्य लक्षणमुच्यते । मुजवेष्टितजङ्घोरो (श्चूलिका श्लेपितावनेः) ॥ १८ ॥ पृष्ठतो भुजपाशश्चेन्मृत्युसंयमनो हि सः । इत्येवमथ लिङ्गार्थसमासान् पूर्ववत् स्मरेत् ॥ १९ ॥ कुकुमे तु विजानीयात् क्कीने लोहितचन्दनम् । अस्त्री तु लोहिते विद्याचन्दनेऽथ लियां भवेत् ॥ २० ॥ ऋद्धिसंज्ञकमैषज्यमेदे सर्वजनप्रिया ।
सम्भवत्सु समासेषु लिङ्गार्थावपि पूर्ववत् ॥ २१ ॥ अथो नपुंसकं क्षीरे ज्ञेयं सोमरसोद्भवम् । यत् त्वन्यत् सोमरसजं तत्र स्याद् भेद्यलिङ्गकम् ॥ ११ ॥ हिरण्यकशिपुः पुंसि प्रह्लादपितरि स्मृतः । हिरण्यचित्रितकुथे पुनः स्यात् पुन्नपुंसकम् ॥ २३॥ हिरण्मयं तु यत् किञ्चित् कशिष्वर्थतया स्मृतम् । तत्राप्यपूरि चाध्यायः काण्डं चापि पूर्यत ॥ २४॥
इति पढक्षरकाण्डे नानालिङ्गाध्यायः ।
इति द्रमिडवात्स्यायनभट्टकृष्णपुरदेवसूनोर्भवस्कन्दशिष्यस्य केशवस्वामिनः कृतौ नानार्थार्णवसंक्षेपे
राजराजीयसंज्ञे
षडक्षरकाण्डः समाप्तः ।
समाप्तश्चायं ग्रन्थः ।
शुभं भूयात् ।

Page Navigation
1 ... 339 340 341 342