Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 333
________________ पञ्चाक्षरकाण्डे नानालिकाध्यायः। (उपान)हि स्त्रियां पादरक्षणी क्ल्यविरक्षणे ।। स्त्री तु मङ्गलवाद्यस्य निर्घोषे प्रियवादिका ॥ ६७ ।। प्रियस्य वक्तरि त्रि स्यादथ स्त्री पीततण्डुला। कङ्गुधान्ये त्रिषु पुनः पीतो यस्यास्ति तण्डुलः ॥ ६८॥ पुष्टिवर्धनशब्दोऽयं चाषाख्यविहगे द्वयोः।। त्रि तु (वर्धन)के पुष्टेरन्यञ्चेशमुद्यताम् ।। ६९ ।। पुरुषव्याघ्रशब्दोऽयं गृध्राज्यविहगे द्वयोः । पुमांस्तु पुरुषश्रेष्ठे पुमांस्तु पृथिवीपतिः ॥ ७० ॥ यमे भौमे त्रि तु मापे तालीसंज्ञे तु पादपे । लियां स्यात् फलपाकान्ता नि तु व्रीहियवादिषु ॥ ७१ ॥ मुद्गमाषतिलायेषु फलपाकविनाशिषु । अथ चापप्रभेदे स्यान्नलिङ्गं बिम्बिसारकम् ॥ ७२ ॥ बाणभेदे तु विज्ञेयो ना द्वापश्चाशदगुले । नायोक्तौ युवराजे स्यात् पुलिको भतेदारकः ।। ७३ ॥ राजपुत्र्यां तु नाट्योक्तौ स्त्रीलिङ्गा भर्तृदारिका । . टुण्डवृक्षे तु मण्डूकपर्णः पुंसि स्त्रियां पुनः ॥ ७४ ॥ मण्डूकपर्णी भण्डीरीसंज्ञवल्लयां द्वयोः पुनः । महाशकुन उलके महत्यपि विहामे ॥ ५ ॥ *अजोपचारकुशले पुंसि स्यान्मलहारकः। मलस्य हर्तरि त्रि स्यादथ ना मधुरस्वनः ॥ ७६ ॥ शङ्के त्रिषु तु यस्यास्ति तत्रार्थे मधुरः स्वनः । निर्वृहेऽपाश्रये च क्ली मत्तवारणमित्यदः ॥ ७७ ॥ - ना तु मत्तगजे ना तु चतुष्कीसंज्ञके कृते । वाससा विद्धि मशकहरी मशककुन्धये ॥ ७८ ॥ - * 'गजोपचारकुशलो वाहिको मलहारकः' (पृ. 11. श्लो. ८७) इति तु वैजयन्ती ।

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342