Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 330
________________ नानार्थार्णवसंक्षेपे यस्याग्नारुतौ तत्र द्वे तु स्यादीश्वरप्रियः । तित्तिर्याख्ये पक्षिभेदे त्रिषु त्वीश्वरवल्लभे ॥ ३१ ॥ अथोपकारिका स्त्रीत्वे राजावासेऽथ सा त्रिषु । उपकारक इत्येष उपकर्तर्यथ दुमे ॥ ३२ ॥ उल्लेखनीयं कतकसंज्ञेऽभो मेयलिङ्गकम् । उल्लेखितव्येऽथ ब्रह्मचारिभेदे नृलिङ्गकः ॥ ३३ ॥ उपकुर्बाण इत्येष त्रि तु स्यादुपकर्तरि । स्यात् पुनर्हरिमन्थाख्यमुद्गजात्यन्तरे पुमान् ॥ ३४ ॥ ऊर्ध्वरूप इत्येष यस्योर्ध्वं रूपमस्ति हि । तत्र त्रिः परवल्लिङ्गं षष्ठीतत्पुरुषादिषु ॥ ३५ ॥ बलभद्रे कुबेरे चाप्येककुण्डल इत्ययम् । पुंसि त्रिषु तु यस्यैकं कुण्डलं तत्र नय् पुनः ॥ ३६ ॥ औपरिष्टकमित्येतत् कामशास्त्रेषु विश्रुते । क्रियाभेदे त्रिषु त्वेतदूर्ध्वजे प्राह सज्जनः ॥ ३७ ॥ कमलच्छदशब्दोऽयं कमलस्यच्छदे पुमान् । द्वे कङ्काख्यखगेऽथो ना नारदे कलहप्रियः || ३८ ॥ त्रिलिङ्गस्तु प्रियो यस्य कलहस्तत्र वस्तुनि । स्यात् कण्टकिफलः पुंसि पनसे गोक्षुरेऽपि च ॥ ३९ ॥ त्रि तु स्यात् तत्र यस्यापि फलं कण्टकवद् भवेत् । कलशोदक इत्येष पुमानम्लानसंज्ञिनः ॥ ४० ॥ स्तम्बस्य भेदे स्याच्छोणपुष्पे झाटाकृतावथ । कलशस्थजले क्लीबमथ ना कर्णपूरणः ॥ ४१ ॥ मुस्तके की तु कर्णस्य पूर्ती पूरयतेः पुनः । अर्थे न ना भवेत् कर्णपूरणाथो नृलिङ्गकः ॥ ४२ ॥ 1. 'मा' क. च. पाठः. २. 'की' ग. पाठः.

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342