Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
पशाक्षरकाण्डे नपुंसकलिाध्यायः। राष्ऽऽप्यथोपयमनं विवाहे खीकृतावपि । कालानुसार्य शैलेये जावकाख्ये विलेपने ॥ ७ ॥ केशवायुधमित्येतत् केशवस्यायुधे तथा। रथचक्रेऽप्यथ ज्ञेयं ग्रामणीकुलमित्यदः ॥ ८ ॥ शुद्धीपा हि बहवः सगरैः सागरीकृते । भागे भारतवर्षस्य तेषामन्यतमे तथा ॥९॥ प्रामण्यां च कुलेऽथ स्याद् गुणसामान्यमित्यदः । साङ्यतत्त्वे प्रधानाख्ये गुणशब्दार्थवस्तुनः ॥ १० ॥ समानत्वेऽप्यथो पत्रे तमालाख्यमहीरुहः । तमालपत्रं भस्मादिरचिते च विशेषके ॥ ११ ॥ दुग्धाने दुग्धतालीयं स्यात् फेनेऽपि च दुग्धजे । धनधारणमित्येतत् स्वापतेयस्य धारणे ॥ १२ ॥ व्यवहारप्रवृत्तानां लेख्यभेदेऽप्यथो भवेत् । - नगभूषणमित्येतन्नगानां भूषणेऽपि च ॥ १३ ॥ हरितालेऽप्यथ ज्ञेयं नियमे परिभाषणम् । निन्दात्मकेऽप्युपालम्भे स्यादालापेऽप्यथो भवेत् ॥ १४ ॥ परिवेषणशब्दोऽयं भोजनायां च वेष्टने । पादवन्धनशब्दस्तु बन्धने पादवस्तुनः ॥ १५ ॥ स्याच्च जीवधनाभिख्ये गोमहिष्यादिवस्तुनि । मणिसोपानशब्दोऽयं सोपाने मणिनिर्मिते ।। १६ ॥ चाटुकार इति ख्यातेऽप्येकवल्लया समे कृते । सौवर्णैर्गुडकैर्विद्यादलहारान्तरेऽ(थपि) तत् ॥ १७ ॥
१. 'मा' ग. च. पाठ:. २. 'गैः कलर्शिवै' इ. पाठः.

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342