Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
९०.
नानाथीर्णवसंक्षेपे
सर्वात्मन्यप्यथ स्वादुकण्टकः स्याद् विरुद्धते । कोल्यां च गोक्षुरे चापि स्यादथो हव्यवाहनः ॥ १७ ॥ भवेदाहवनीयाम देवानामिमात्रके । हिनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च ॥ १८ ॥ हिरण्यबाहुः शोणाख्यनदे विषमलोचने ॥ १८३ ॥
इति पचाक्षरकाण्डे पुल्लिङ्गाध्यायः ।
अथ पञ्चाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अथ पञ्चाक्षरनपामध्यायो रेचयिष्यते । अनुनार्थेन शब्दोऽयं याच्ञादिषु चतुर्ष्वपि ॥ १ ॥ अथातिसर्जनं दाने (बधे)* चाथापवर्जनम् । परित्यागे च दाने चाप्यथावहननध्वनिः ॥ २ ॥ मुसले चावघाते चाप्यथावतरणध्वनिः । अवतीर्णौ च भूतादिग्रहे निवसनाचले || ३ || अभिसन्धानशब्दोऽयं शरव्येऽप्यभिसन्धिके । उपसर्जनमित्येतद् यत् स्यात् प्रथमयोदितम् ॥ ४ ॥ समासशास्त्रे तत्र स्यादप्रधानेऽपि तत् तथा । उपसृष्टौ तथाचाह निदाने षोडशिस्तवे ॥ ५ ॥ स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि । उपवर्तनमित्येतदश्वानां उठने क्षितौ ॥ ६ ॥
१. 'वर्णयि' ग. पाठः २. 'थितश' ग. पाठः..
'अथातिसर्जनं दाने वधेऽपि च नपुंसकम्' इति मेदिनी ।

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342